SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। या तु नाख्यातेन तहता सङ्ग्योच्यते तत्र भवत्येव तृतीया। यथा देवदतेन प्रोदन: पच्यत इति । तस्मान्न कत्तुरनभिधाने यत्किञ्चिदूषणम् इत्यलमतिविस्तरेण | प्रकृतमनुसरामः । वत् सिस्त्रिविधः श्रुतिविनियोगः । __ सेयं श्रुतिर्लिङ्गादिभ्यः प्रबलं प्रमाणम् । लिङ्गादिषु हि न प्रत्यक्षो विनियोजकः. शब्दोऽस्ति, किन्तु कल्प्यः । यावच्च नेविनियोजक: कल्प्यते तावत् प्रत्यक्षया श्रुत्या विनियोगस्य कृतबेन तेषां कल्पकत्वशक्तिविहन्यत इति श्रुतेः प्राबल्यम् । अतएव ऐन्या गार्हपत्यमुपतिष्ठत इत्यत्र यावलिङ्गात् ऐन्या तृतीयाविधानस्य विषयं दर्शयति यत्र विति। नाख्यातेनेति। कर्मध पाख्यातवाच्यत्वे इति भावः । तद्गता कर्तुगता। उदाहरति यथेति । वाद्युक्तदूषणान्युद्धत्य उपसंहरति तस्मादिति। मनभिधाने आख्यातानभिधेयत्व । प्रासनिकानावश्यकविसरादिरमति इत्यलमितिः। प्रकृतं श्रुतिविमियोगम् । बसीयाध्यायत्तीयपाद "श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदोब्बल्य-- मर्थविप्रकर्या” दिति मूत्रेण थुत्यादीनां पूर्वपूर्वापेक्षया परपरस्य दौर्बल्यं प्रतिपादयता श्रुतेः लिङ्गादिभ्यः सर्वेभ्यः प्राबल्यमुक्तं तदिदानीमुपदर्शयति सेयमिति। लिङ्गादिभ्यः लिङ्गादि समाख्यापर्यन्तभ्यः । प्रत्यक्ष: शब्दकोधितः। विनियोजकः विनियोगबोधकः । शब्दाभावे कथमेषां विनियोजकत्वाङ्गीकार इत्यत आह किन्विति। कल्प्योऽर्थापत्त्यनुमानादिना गम्यः। ननु लिङ्गादिकल्पनीय एव शब्दी विनियोजकः कुती नाट्रियत इत्यत पाह यावदिति । यावता कालेमेत्यर्थः । तैलिङ्गादिभिः । विनियोजक: अनेनैव कर्तव्यमिति वाक्य विशेषः । तेषां लिङ्गादौनाम् । कल्पकत्वशक्तिः कल्पनासामर्थ्यम् । विहन्यत इति । प्रागुत्पन्न प्रत्यक्षश्रुतिजन्यप्रमितेर्विपरीतार्थक श्रुत्त्य नुमित्यादिप्रतिबन्धकत्वा. दिति भावः । अतएवेति । श्रुतेर्लिङ्गादिभ्यः प्राबल्यादित्यर्थः । ऐन्द्रयति । ऐन्द्या इन्द्रप्रका. शिकया ऋचा गाईपत्यमग्रिविशेषमुपतिष्ठत इत्यर्थः । अत्र उपस्थानस्य गार्हपत्य कर्मकत्वं हितीयाथुत्यावगम्यते । ऐन्द्रयति हतीयाश्रुत्या ऋचो गार्हपत्योपस्थानकरण त्वं प्रतीयते । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy