________________
Shri Mahavir Jain Aradhana Kendra
५६
www.kobatirth.org
न्यायप्रकाशः ।
Acharya Shri Kailashsagarsuri Gyanmandir
मुख्यं न स्यात् । किञ्च आख्यातवाच्यः कर्त्तेति वादिनोऽपि मते देवदत्तः पचतीति सामानाधिकरण्यं न मुख्यम् । तन्मते आख्यातेन तृतीयावत्रिष्कृष्ट शक्तिमात्र रूपकर्त्तृकारकाभिधानात् । शक्तिमद्द्रव्यस्याकृत्यधिकरणन्यायेनानभिधानात् देवदत्तशब्देन च द्रव्यमात्राभिधानात् । अतश्च भिन्नार्थनिष्ठत्वात्तन्मतेऽपि न मुख्यं सामानाधिकरण्यम् । किन्तु लाक्षणिकमेवेति न कश्चिविशेषः ।
षणामेव
नवचेष्टापत्तिरित्यत श्राह किञ्चति । तृतीयावदिति । कर्तृकरतो व्याकरणस्मृतेर्यथा तृतीया कर्तृकारका भिधानं तद्ददित्यर्थः । निष्कृष्टेति । कारकाणां शक्तिमात्रत्वऽपि कर्तृकारकस्य कारक विशेषतया निर्धारितशक्तिमात्ररूपत्वमिति आवः । भक्तिमात्रेति । मात्रपदेन शक्तिमव्यव्यावृत्तिः । यदुक्तं वैयाकरणैः । कारकं शक्तिस्तस्थानेकरूपत्वात् । द्रव्यन्तु शक्तिमत् । न तु शक्तिस्तस्यैकस्वभा वस्यानेकरूपताया चयुक्तत्वात् । द्रव्ये कारक व्यवहारस्तु शक्तिशक्तिमतोर्भेदस्याविवचितत्वादिति ।
मात्र
तथाच निष्कृष्टं निर्धारितं यत् शक्तिमाचं तद्रूपस्य कर्तृकारकस्याभिधानादित्यर्थः । यदव्यवच्छेद्यमाह शक्तिमदिति । श्राकृत्यधिकरखेति । तदधिकरणे द्रव्यशक्तिनिराकरणादिति भावः । देवदत्तेति । अनुगतव वोधक शब्दानान्तु तद्धर्म्मवत्त्वं शक्तिः । तत्तप्रक्तिबाधक शब्दानान्तु अनुगतधर्माभावादगत्या व्यक्तावेव शक्तिरित्यङ्गीकारात् देवदत्त. . शब्दस्य तहप्रक्तिमात्रबोधकतया द्रव्यमाचाभिधायकत्वमेवेति भावः ।
भवतु वेन सामानाधिकरण्यस्य कुतो न मुख्यत्वमित्यत श्राह चतचेति । भिन्नार्थनिष्ठत्वात् देवदत्तपदाख्यातपदयोरे कधर्म्मिबोधकत्वाभावात् । लाक्षणिकमिति । श्राख्यातस्य ॥ तमद्र गलाक्षणिकत्वाश्यकत्वादिति भावः । न कश्विदिति अस्मन्मते श्राख्यातपदे कल त्वमतेऽपि भूतिमद्रये लक्षणेति मुख्यार्यस्य लाक्षणिकार्थेनान्वये कोऽपि विशेषो नास्तीति भावः ।
For Private And Personal