________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यायप्रकाशः ।
Acharya Shri Kailashsagarsuri Gyanmandir
न च लः कर्त्तरोति व्याकरणस्मृतिबलादाख्यातवाच्यः कर्त्तेति वाच्यम् । नहि वाच्यवाचकभावी व्याकरणस्मृत्यधीनः । तस्य न्यायसहितान्वयव्यतिरेकगम्यत्वात् । भवतु वा स्मृतिगम्यस्तथापि नेयं स्मृतिः कत्तुराख्यातवाच्यत्वे प्रमाणं किन्तु कर्त्तुरेकत्वे एकवचनात्मको लकारः, द्वित्वे द्विवचनात्मकः, बहुत्वे बहुवचनात्मक इत्यस्मिन्नर्थे प्रमाणम् । देवकयोर्द्विवचनैकवचने । बहुषु बहुवचनम् । इत्यनेनास्याः स्मृतेरेकवाक्यत्वात् ।
५७
कर्त्तुराख्यातपदानभिधेयत्वे लः कर्त्तरीति व्याकरणम्प्रतिविरोध इत्युक्तदूषणं निराकरोति न चेति । नहीति । वाच्यवाचकभावस्य व्याकरण स्मृत्यधीनत्वे मण्डपादिपदस्य मण्डपानाश्रय पुरुषवाचकत्वं स्यादिति भावः । तर्हि वाच्यवाचकभावस्य किं प्रमाणकत्व - मित्यत्राह तस्येति । तत्तदर्थसत्त्वं तत्तत्पद प्रयोगोऽन्वयः । तत्तदर्थाभावे तत्तत्पदप्रयोनाभावी व्यतिरेकः । नानार्थशब्दवत् निरूदलाचणिकस्थले भन्वयव्यतिरेकसत्त्वेऽपि नानाशक्ति कल्पना गौरवापेचया एकत्र मुख्यत्वमपरच लाक्षणिकत्वमित्येवं मुख्यत्वलाक्षणिकत्वयोयाङ्गीकरणीयतया तत्र वाच्यवाचकभावावगमे न्यायोऽपि सहकारीति ज्ञापनाय न्यायसहितेत्युक्तम् ।
शक्तिग्रहं व्याकरणोपमान कोषाप्त वाक्याद्यवहारतश्च ।
arita शेषादिवृतेर्वदन्ति सन्निध्यतः सिद्धपदस्य वृद्धाः ॥
For Private And Personal
इत्यनेन व्याकरणस्यापि व्यवहारवत् शक्तिग्राहकत्वोक्तेराह भवतु वेति । इयं स्मृति: “लः कर्म्मणि च भावे चाकर्मकेभ्यः” इति पाणिनिमूत्ररूपा । कर्तुराख्यातवाच्यत्व इति । तथाच पाककर्चादेः पाचकादिपदवाच्यत्वे व्याकरण स्मृतेः प्रमाणत्वेऽपि ल: कर्म्मणि चेति व्याकरणस्मृतेः कर्त्त राख्यातवाच्यत्वे न प्रमाणत्वमिति भाव: ।
तर्हि कस्मिन्नर्थे प्रमाण मित्यत्राह किन्त्विति । हे कयोरिति । हित्वैकत्वयोरित्यर्थः । बहुषु बहुवे । इत्यनेन सूत्रइयेनेति शेषः । अस्या: ल: कर्माणि चेति पाणिनिस्मृतेः । एकवाक्यत्वादिति । एकतात्पय्यैकत्वादित्यर्थः ।
श्रयमाशयः । सुपां तिङाञ्चैकैकविभक्तेरेकवचनादिसंज्ञा । तेषाच्चैकवचनादीनामेकत्वाद्यर्थेषु विधानादेकत्वादिकमर्थः । तत्र सुपां कर्मादिकमप्यर्थ: । द्वितीयादीनां