________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशा
लिङ्गसङ्ख्याप्रतिपत्त्यर्थ तस्या आवश्यकत्वात्। केवलप्रातिपदिकार्थस्य प्रयोगासाधुत्वाच्च । ततश्च यदि कर्ता न वाच्यः स्यात् देवदत्तेन पचतीति प्रयोगः स्यात्। तस्मादाख्यातवाच्यः कर्तेति सिद्धमिति पूर्वपक्षसझेपः ।
अत्राहुः । स एव हि शब्दस्यार्थों यः प्रकारान्तरेण न लभ्यते। अनन्यलभ्यः शब्दार्थ इति न्यायात् । अतएव न गङ्गापदस्य तीरमर्थः । लक्षणयैव प्रतिपत्तिसम्भवात्। अतएव च न वाक्यार्थे शक्तिः । एवञ्चाख्यातवाच्यभावना कर्तारं विनानुपपन्ना कर्तारमाक्षिपतीत्याक्षेपादेव कर्तुः प्रतिपत्तिसम्भवे किमिति तहाचकत्वमाख्यातस्य कल्पनीयम् ।
न च विनिगमनाविरहः, कृतिमान् हि कर्ता, एवञ्च कृतेरेव भावनापरपर्यायाया आकृत्यधिकरण न्यायेनाख्यातवाच्यत्वसम्भवे, लिङ्गेति । विभक्तिं विना लिङ्गसङ्ख्ययोरप्रतिपत्तेरिति भावः। प्रयोगेति। नापदं शास्त्रे प्रयुषीतेति न्यायादिति भावः। ततश्चेति। यतोऽभिहिते कर्तरि प्रथमा, अनभिहिते तु तीयेति सिद्धान्तस्तत इत्यर्थः । पूर्वपञ्चमुपसंहरति तस्मादिति ।
सिद्धान्तयति अत्रारिसि। प्रकारान्तरेण बानेपादिना। तेन कर्तुराक्षेपलभ्यत्वेन न शब्दार्थत्वमिति दर्शितम् । अत्र प्रमाणमाह अनन्येति । शब्दार्थोऽनन्यस्लभ्यः अन्यलभ्यः शब्देतरलभ्यो न स्यादित्यर्थः । तथाच शब्दादन्येन लभ्यते चेदर्थ स्तदासौ शब्दार्थ एव न भवतीति भावः । एतन्यायादेव लाक्षणिकार्थस्य न शब्दमुख्यार्थत्वं लक्षणया तदर्थलाभादित्याह अलएवेति । अर्थः शक्योऽर्थः। न वाकयार्थ इति । वाक्यप्रनिपनार्थस्य शब्दतरलभ्यत्वादिति भावः ।
एवञ्चेति प्रकारान्तरेण लभ्यस्य शब्दार्थत्वाभावे सतीत्यर्थः । किमिति किनिमित्तम् । नन्वाख्यातस्य भावनावाचकलाङ्गौ कारण कतराक्षेपलभ्यत्वस्येव कर्तृवाचकत्वाङ्गीकारेण भाकनाया आपलभ्यत्वस्थापि सम्भवात् विनिगमनाविरहेणोभयवाचकत्वमस्विति निराकरोति न चेति । भावनामाववाचकत्वे लाघवरूपां विनिगमनां निराकरणे हेतुमाह कृतिमान् सौनि। कत्यधिकरणेति । प्राकृतिशत्यधिकरणन्यायेनेत्यर्थः । “प्राकृतिस्तु क्रिया
For Private And Personal