________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
स्पष्ट एव। किञ्च कतुरनभिधेयत्वे देवदत्तेन पचतीति प्रयोगप्रसङ्गः। तीया हि अनभिहितयोः कर्तृकरण्योविहिता । आख्यातेन च कर्ता नाभिहित इति कर्त्तवाचिनी रतीया स्थादेव। कर्तुरभिधाने तु अभिहितवादेव रतीया न प्राप्नोति। तस्या अनभिहिताधिकारत्वात् । देवदत्तः पचतीति प्रथमा तु प्राप्नोत्येव । प्रथमाया अभिहितकारकविभक्तित्वात् । प्रातिपदिकार्थमात्रवाचित्वाहा।
न च तदा प्रातिपदिकेनैवार्थस्योक्तत्वात् प्रथमावैयर्थ्यम् ।
नान्तमिति काशिका। तथाच दश लकारा: कर्मणि कर्तरि च स्युः । अकर्मकेभ्यस्तु भावे चकारात् कर्तरि च वाच्ये इत्यर्थः। विरोध इति । कतुराख्यातवाच्यत्वाभावे पाणिनिस्मृती कर्तरि वाच्ये पाख्यातानुशासनविरोधः स्पष्ट एवेति विरोध इति भावः । ननु नः कर्तरीत्यत्र वाच्य इति म स्पष्टमवगम्यते । कर्तरि आक्षेपलभ्ये इत्यर्थस्थापि सम्भवादिव्यत आह किञ्चेति । अमभिधेयत्वे अवाच्यत्वे । कर्तृपदस्य तृतीयान्तताप्रसक्तिवीममाह तौया हौति। अनभिहितयोरिति। अनभिहिते इत्यधिकृत्य कर्तृकरणयोस्वतीयेति सूत्रेण कर्तरि तृतीयानुशासनादिति भावः । नामिहित इति । भवन्मते कर्तुराख्यातवाच्यत्वानभ्युपगमादिति भावः । तर्हि प्रथमैव कुत: प्राप्नीतीत्यवाह प्रथमा होति। अभिहितकारकेति । यस्मिन् वाच्ये विधीयन्ते त्यादितव्यादितद्धिताः । समासो वा भवेदयत्र स उक्तः प्रथमा भवेदिति कारिकया व्याकरणान्तरसूत्रेण च उक्त अर्थे प्रथमाविधानादिति भावः। पाणिनिमतेन समाधत्ते प्रातिपदिकार्थमावेति । “प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथम"ति पाणिनिसूत्रेण इन्द्वात् परः श्रयमाणः शब्दः प्रत्येकमभिसम्बध्यत इति न्यायात् मात्रपदस्य प्रत्येकमन्वये प्रातिपदिकार्थमात्रे प्रथमाभिहिता। मात्रपदान्क्याच यत्र द्वितीया-तृतीयादिप्राप्नेरविधेयत्वं तवैव प्रथमेति सिद्धम् । एवञ्च कर्तुराख्यातवाच्यत्वे कर्तुरभिहितत्वेन अनभिहितकर्तृ करणविहितटतीयाया: प्राप्ताभावात् प्रथमैव स्यादिति भावः । - मनु यदि प्रथमाया: प्रातिपदिकार्थादर्थान्तरं नास्ति, तदा प्रथमावैयर्थमित्याशङ्का परिहरति न चेति। वैयमित्यनेनान्वितम्। तस्याः सार्थक्यमुपदर्शयति तस्या इति ।
For Private And Personal