________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
४५
न चोत्पत्तिपिष्टपुगेडाशावकहे यागे कथं ब्रीहीणामङ्गत्वमिति वाच्यम् । पुरोडाशप्रकृतितयोपपत्तेः। पशोरिव हृदयादिरूपहवि:प्रकृतितया यागाङ्गत्वम्। न च साक्षात् पशोरेवाङ्गत्वं किन स्यादिति वाच्यम् । तस्य विशसनात् । अवदीयमानत्वाच हृदयादीनाम् । अवदीयमानं हि हविः । यथा पुरोडाशादि। मध्यात् पूर्वाह्यचावद्यतीति वाक्यात् । हृदयादीनि चावदीयमानानि न पशुः। हृदयस्याग्रेऽवद्यतीति वाक्यात् । अतो हृदयादीन्येव हवींषि । पशुस्तु प्रकृतिद्रव्यम्।
ननु पुरोडाशेन यजैतेति शुत्या पुरोडाशस्य हव्यतया यागोपकारकत्वं प्राप्तं तत्कथं द्रोहीणां यागीपकारकत्वमुच्यमानमुपपद्यते इत्याशङ्कां निराकरीति न चेति । उत्पत्तिशिष्टेति। उत्पत्तिविधिविहितेत्यर्थः । पुरोडाशावरुद्धे पुरीडाशद्रव्येण द्रव्याकाङ्घारहिते। पुरोडाशप्रततितया पुरीडाशीपादानकारणतया । उपपत्तेः परम्परया घागोपकारकत्वस्थोपपत्तेः। तच दृष्टान्तमाह पशीरिवेति । यथा पशोहदयादिरूपहविः प्रतितया पशुना यजेतेति यागाङ्गत्वमुपपन्न तथा प्रकृतेऽपीति ।
तत्र साचादेव पशोरङ्गत्वशङ्कामपाकरीति न चेति। विशसनात् वधात् । वधन पशुनाशात् कथं तस्य करणत्वसम्भव इति भावः। ननु पशुपदं पशुगतनिखिलावयवपरमित्यत आह अवदीयमानत्वाञ्चेति । कर्त्तनेन खण्डखण्डोक्रियमाणत्वादित्यर्थः । हृदया. दौनामवदीयमानत्वेऽपि कथं निखिस्लावयवस्य न हविष्वमित्यत्राह अवदीयमानं हीति । भवदीयमानस्यैव हविष्दे दृष्टालमाह यथेति । पुरोडाशादौति । यथा अवदीयमानं पुरीडाशादिद्रव्यमेव हविन सर्व तथेत्यर्थः। तस्यावदीयमानत्वे प्रमाणमाह मध्यादिति । मध्यात् पूर्वार्द्धाचावदाय खण्डखण्डं विधाय तेन जुहोतीत्याशयः । हृदयादौनामेवावदीयमानत्वं प्रमापयितुमाह हृदयादीनि चेति । हृदयस्याग्रेऽवद्यतीति। यो दौक्षिती यदनीषोमीयं पशुमालभतेत्युपक्रम्याम्रातात् हृदयस्याग्रेऽवद्यति अथ जिह्वाया अथ वक्षस इति वाक्यादित्यर्थः । अत इति । पशीर्ह दयादीन्यवदाय तेन जुहोतीति प्राप्ते रित्यर्थः ।
For Private And Personal