________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
स्थिती सा शक्तन् जुहोतीतिवत् तृतीयार्थ लक्षयति । अग्निहोत्रेण होमेनष्टं भावयेदितीत्युक्तं पार्थसारथिमित्रैः। अतश्च हितीयान्तानां कम्मनामधेयानामन्वयो नानुषपन्नः। तसिद्धमुत्पत्तिविधौ कम करणवेनान्वेतीति ।
अङ्गप्रधानसम्बन्धबोधको विधिर्विनियोगविधिः । यथा दना जुहोतीति । स हि तीयाप्रतिपन्नाङ्गभावस्य दध्नो होमसम्बन्ध विधत्ते। दना होमं भावयेदिति । ___ एतस्य विधेः सहकारिभूतानि षट् प्रमाणानि श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यारूपाणि । एतत्महकतेन विनियोगविधिना अङ्गवं परोद्देशप्रहत्तकतिव्याप्यत्वरूपं पाराापरपयायं
-
मावः । शक्त निति । शक्त निति द्वितीया यथा शक्नु भिरिति हतीयार्थं लक्षयति सथाग्निहोत्रमिति द्वितीयापि हतीयार्थ लक्षयतीत्यर्थः। उक्तं शास्त्र दीपिका प्रथमाध्यायचतुर्थपाद अग्निहोत्रादिशब्दानां यागमामधेयताधिकरणे इति शेषः ।
विनियोगविधिं निरूपयति अङ्गेति। अङ्गप्रधानयोः सम्बन्ध उपकारकोपकार्यभावः। उदाहरति यथेति । तस्याङ्गप्रधानसम्बन्धबोधकवं साधयति स होति । हि यस्मात् । स विधिः । तृतीयेति। तीयया तृतीयाश्रुत्या प्रतिपन्न: करपताप्रतीतिबलादवगतः अङ्गभाव उपकारकभावो यस्य तस्य दनो होमसम्बन्ध हीमीपकारकत्वं विधत्ते बोधयतीत्यर्थः । बोधनप्रकारमा दनेति । तीयया होमभावमायां दधः करणत्वावगमात् हीमोपकारकत्वसिद्धिः । धात्वर्थस्य करणत्वेनान्वयमुपेक्ष्य भाव्यत्वान्वयवीजन्वर्थसंग्रहटौकायां द्रष्टव्यम् ।
एतस्य विधैर्विनियोगविधः। सहकारिभूतानि अङ्गप्रधानसम्बन्धबोधने सहकारिकारणभूतानि । षट् प्रमाणान्याह श्रुतिलिङ्गेति । परोद्देशेति। परीद्देशेन प्रधानकर्मण उपकारीद्देशन प्रहत्तस्य पुरुषस्य कतिव्याप्यत्वं कृतिसाध्यत्वं तद्रूपमित्यर्थः । पारार्थेति । पारार्यमेव अपरपयायो नामान्तरं यस्य तत् । परोपकारकत्वमिति यावत्। अतएव "शेषः परार्थत्वा दिति शेषलक्षणसूत्रव्याख्यायां “यः परस्योपकार वर्तते स शेषः" इति भाष्यम्।
For Private And Personal