________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यावयास
थं क्यमधिकारविधित्वोपपत्तेः। अतः किमर्थं सम्भवति रूपवति वाक्ये कमविधाने तद्रहित तत् स्वीकार्यम् ।
किञ्च दना जुहोतीत्यस्य कर्मोत्पत्तिविधिले पयसा जुहोतीत्यनेनैतत्कम्मानुवादेन न पयो विधातुं शक्यते उत्पत्तिशिष्टदध्यवरोधात् । उत्पत्तिशिष्टगुणावरुद्धे हि न गुणान्तरं विधीयते । आकाशाया उत्पत्तिशिष्टेनैव निवृत्तत्वात् । अतस्तेनापि विशिष्टं कमान्तरं विधेयम् । तथाचाने कादृष्टकल्पनागौरवम् । अग्नि
ज्योतिष्टोमेनेति। अधिकारति । तस्याधिकारविधिष्वन्तर्भावात् फलसम्बन्धार्थकतया सार्थकत्वादित्यर्थः । किमर्थमित्यादि। रूपवति द्रव्यदेवतान्यतरबोधके वाक्ये सोमेन यजेतेत्यादौ कम्म विधाने वागस्योत्पतिविधित्वे सम्भवति तद्रहिते द्रव्यदेवतारहिते ज्योतिटोमवाक्यादौ किमर्थं तत् यागविधानं स्वीकार्यमित्यर्थः ।
तथाच रूपनाम्बो रूपस्यैव विशेषेण स्वरूपावगमहेतुत्वात् नामस्तु सामान्यतस्तदवगमक. त्वात् रूपबोधकवाक्यस्यैव उत्पत्ति विधि त्वं न्याय्यं न पुनर्नामवदाक्यस्य । यथा सोमवाक्यस्योत्पत्ति विधित्वं न ज्योतिष्टोमवाक्यस्य । यत्र तु नामवदाक्यस्य वैयद्पि व हाक्यस्योत्पत्तिविधित्वं न सम्भवति तत्र नामवहाक्यस्योत्पत्ति विधित्वं स्वीकार्य न रूपवहाक्य स्य । यथाग्रिहोत्रवाक्यस्यैवोत्पत्तिा धत्वं न दधिवाकास्य। एवमुनिदा यजेतेत्यादावपि । तत्रापि रूपवहाकास्योत्पत्तिविधित्वासम्भवादिति भावः ।
ननु यथा यजमानो यूप इत्यत्र यू पस्य यजमानवदूर्द्धवरूपगुणविधायकत्वं तथाग्निहोत्रं जुहोतीत्यस्यापि यागस्याग्रिहोत्रनामकत्वरूपगुणविधायकत्वमस्तु न वैयर्थ्य मित्यत पाह किचेति। उत्पनौति । उत्पत्तिविधिविहितदधिद्रव्येस पवरोधात् । यागस्य सद्रव्योकरणादित्यर्थः । अत्र हेतुमाह उत्पत्ति शिष्टेति । हि यस्मात् । श्राकाङ्क्षायाः गुणा. काङ्गायाः । उत्पत्तिशिष्टेनैव उत्पत्तिविधिबोधितगुणेनैव। तेनापि पयसा जुहोतीत्यनेनापि । विशिष्टं द्रव्यविशिष्टम् । कर्मान्तरं प्रधानकर्मान्तरम्। विधेयमिति । पयसा जुहोतीत्यस्यापि भवन्मते गुणविधित्वासम्भवेन प्रधानविधित्वापातादिति भावः । तत्र को दोष इत्यत्राह तथाचेति । अनेकादृष्टेति । अनेकपरमापूर्वेत्यर्थः । अग्नि
For Private And Personal