________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशा
यजेतेत्यत्र यद्यपि देवता नोपलभ्यते सोमयागस्याव्यक्तत्वात् । अव्यक्तत्वञ्च स्वार्थचोदितदेवताराहित्यम्, न तु देवताराहित्यमात्रम् । ऐन्द्रवायव्यं गृह्णातीति वाक्य विहितग्रहदेवतानां सत्त्वात्। ग्रहणाभिरपि देवताभिः प्रसङ्गतो यागोपकारस्य क्रियमाणत्वात्। तथापि द्रव्यमुपलभ्यत एव । तेनापि यागस्वरूपं ज्ञातुं शक्यमेव । ज्योतिष्टोमेन स्वर्गकामो बजेतेत्यत्र च न द्रव्यं देवता वा श्रूयते। अतस्तस्योत्पत्तिविधित्वे यागविशेषजानं यागसामान्य स्याविधेयत्वात् । विशेषस्यैव विधेयत्वादित्यादिलेशन स्यादतो नायं कर्मोत्पत्तिविधिः ।
खोत्पतिविधित्वं सम्भवतीत्यत पाह सीमेनेति। ननु भव्यक्तत्वं यदि अव्यक्तदेवताकत्वं नई कथमस्य यागत्वं स्यात् । देवतीद्देशेन ट्रव्यत्यागस्यैव यागपदार्थत्वादित्यन्त पार भव्यक्तत्वञ्चति । स्वार्थेति । स्वबोध कवाक्याविगतदेवताशून्यत्वम्। लद्यागबोधकवाक्यार्थी नवगतदेवताकत्वमिति यावत् । देवताराहित्यस्य अव्यक्तपदवाच्यत्वे सोमयामस्याव्यक्तत्वाङ्गीकारोऽनुचितः स्यादित्याह न विति। ऐन्द्रेति । ऐन्द्रवायव्यम् इन्द्र वायुदेवताकम् । ग्रहं ग्टहातीत्यर्थः ।
ननु ग्रहणोद्देश्यदेवताप्राप्तावपि यागस्य देवताराहित्यमेव प्रतीयते इत्यत आह ग्रहति। ग्रहण सम्बन्धिनौभिरित्यर्थः । प्रसङ्गत: अन्यत्र प्रवर्त्तनात् । यामोपकारस्या यागस्वरूपसम्पादनस्य । तथापीति। यद्यपि देवता नीपलभ्यत इत्यन्वधि। द्रव्यं सोमरूपम् । ज्योतिष्टोमवाक्यस्य 'द्रव्यदेवतान्यतरबोधकत्वाभावेऽपि. यद्युत्पत्तिविधित्वमङ्गौक्रियते तदा यागस्वरूपज्ञानं झंशसाध्यं स्यादित्याह ज्योतिष्टीमेनेति। यागविशेघेति । यागविशेषस्वरूपज्ञानमित्यर्थः । केशन स्थादित्यन्वयि । क्लेशसाध्यत्वे हेतुमाह यागसामान्येत्यादि। तथाच यागविशेषस्यैव ज्योतिष्टोमनामकत्वं यागसामान्यस्य तन्नामकबानुपपत्तेरित्य नुमानगम्यत्वादिति भावः। विधेयत्वात् बोधनौयत्वात्। अत. इति । द्रव्यदेवनाविरहेण यागखरूपज्ञानस्य के शसाध्यवादिस्यर्थः ।
For Private And Personal