________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
नच सोमेन यजेतेत्यत्रापि कम्मखरूपे गुणे च विधीयमाने वाक्यभेदः स्यादिति वाच्यम्। श्रूयमाणन विधिना गुणस्याविधयत्वात् । विशेषणविधेरार्थिकत्वात् । सर्वत्र हि विशिष्टविधौ विशेषणविधिरार्थिकः । ज्योतिष्टोमेनेत्यस्य तूत्पत्तिविधित्वे कम्मस्वरूप फलसम्बन्धश्चेति श्रूयमाणनैव विधिना विधा. तव्यमिति सुदृढ़ी गौरवलक्षणो वाक्यभेदः । यथाहुः ।
श्रोतव्यापारनानावे शब्दानामतिगौरवम् । एकोक्त्यवसितानान्तु नार्थापक्षो विरुध्यते ॥ इति ।
नन्वेवं सोमवाक्येऽपि भवन्मते तथाविधगौरवं स्वादिस्यापत्तिं निराकरीति न चेति । कर्मस्वरूपे इति । भवन्मते तस्थीत्पत्तिविधित्वादिति भावः। श्रूयमाणेन गुणविधायकवया श्रूयमाणेन । सथाच गुणो न गुणविधायकत्वेन रूपेण श्रूयमाणविधियोषितः, किन्तु सद्गुणविशिष्ट कर्मविधायकत्वेन रूपेण श्रूयमाणविधियोधित इति भावः। मनु यदि गुणविधायकी विधिर्न श्रूयते तदा कथमस्य विधेयत्वमित्यत भाइ विशेषणविधेरिति । गुणविधरित्यर्थः। पार्थिकत्वात् तात्पर्योगतत्वात् । तथाच गुणविशिष्टकर्मणो विधेयत्वे गुणस्यापि विधेयतावच्छेदकतयैव विधेयत्वमिति भावः । न केवलं सोमवाक्ये किन्तु सर्वचैव विशेषणविधिरार्थिक इत्यात सर्वत्र हौति । ननु ज्योतिष्टोमवाक्यस्योत्पत्यधिकारविधित्वाङ्गीकारऽपि पन्यतरविधेरार्थिकत्वे उभयविधानं न गौरवायत्यत्रा ज्योतिथोमव्यस्येति । अयमानैवेति । तथाच भवतां मते तस्मोभवविधित्वाङ्गीकारात् ज्योनिष्टोमाख्येन यागेव भावयेदियुत्पतिविधिना बोधिते तेन यागेन वर्ग भावये दित्यधिকাৰিছিলা নীঘিনঘিৰৰ আৱক্ষা মুললিথিযজীঘিনমিনি ৰূছী गौरवलक्षणी वाक्यभेद इति भावः ।
पक वार्षिककारसम्मतिमा यथाहुरिति। श्रौतेति । शब्दानां श्रौतम्यापारस्य जवणेन्द्रियन-यज्ञानस्य नानात्वे अतिगौरवम् । यदि विधियाक्य घटकशब्दा पातत्तिवशादवारं वारं यूयन्ते तदा गौरवासिरक इति तात्पर्यम्। एकसि। एकया उक्त्या पवसितानां समाप्तानाम् अमाछत्तानामिवि यावत् । शब्हानाम् अर्थेन तात्पर्येण कस्यचित पदार्थस्याप पाविर्भावनं न विरुध्यत इत्यर्थः । ज्योतिष्टोमवाक्यस्योभयविधित्वे ज्योति
For Private And Personal