________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः ।
३५
नहि तेन तदा कम्म विधीयते । तस्य दर्शपौर्णमासाभ्यामित्य. नेन विहितत्वात् । नापि गुणविधान सम्भवति । प्राप्त कम्मणि अनेकगुणविधाने वाक्यभेदापत्तेः। अत आग्नेयोऽष्टाकपाल इत्यस्योत्पत्तिविधिलं दर्शयोणमासाभ्यामित्यस्य चाधिकारविधिवं युक्तम् । ज्योतिष्टोमे नेत्यस्याधिकारविधेरुद्भिदा यजत पशुकाम इत्यादिवदुत्पत्तिविधिले स्वीक्रियमाण न कस्यचिदानथक्यम्। सोमेन यजेतेत्यस्य गुणविधित्वात् । यागोद्देशेन सोममात्रविधानाञ्च न वाक्यभेद इति चेन्मेवम् । यद्यपि सोमेन यजेतेत्यत्र लाघवान वाक्यभेदस्तथापि ज्योतिष्टोमेनेत्यस्मिन् वाक्ये कखरूप तस्य फलसम्बन्धे च विधीयमाने गौरवलक्षणो वाक्यभेदोऽस्त्येव। सोमेन यजेतत्येतहाक्यविहितकम्र्मण: फलसम्बन्धमात्रविधाने तदभावात्। उद्भिदा यजेतेत्यत्र तु वचनान्तराभावनागत्या तदाश्रयणम् ।
मन्वाग्ने योऽष्टाकपाल इत्यादिना यागी विधीयतां कथमामर्थक्यमित्यत आह नहीति । अथाग्ने योऽष्टाकपाल इत्यस्य गुणविधित्वं स्थादित्यत आह नापीति । अनेक गुणेति । अग्निदेवताया अष्टाकपालसंस्कृतहविषश्चेत्येतद्गुणहयविधाने इत्यर्थः । नन्वाग्नेयोऽटाकपाल इत्यस्यानर्थक्यवत् प्रकृते सोमेन यजेतेत्यस्यानर्थक्यापत्तिरित्यत आह सीमेनेति । गुण. विधित्वात् गुणविधित्वाङ्गीकारात्। पानेयवाक्यवदत्र गुणइयविधानं नापसतीत्याह सोममात्रेति ।
सिद्धान्तौ निराकरोति मैवमिति । सोमवाक्ये एकमात्रगुणविधानात् वाक्यभेदाभावेऽपि ज्योतिष्टोमवाक्ये विधेयहयापातागौरवमिति भावः। गौरवलक्षण इति। न वाक्यगौरवं किन्वर्थमौरवमिति भावः । ननु स्वमते कथं तगौरवं परिहरणीयमित्यवाह सोमेन यजेतेति । तदभावात् तथाविधगौरवाभावात् । गत्यन्तराभावादेव क्वचित्तथा. विषगौरवाजोकार इत्याह उद्भिदेति। वचनान्तराभावेन उत्पत्तिविध्यन्तराभावेन। .
For Private And Personal