________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः ।
सोमेन यजेते त्यत्र न विशिष्टविधानं किन्तु गुणमात्रविधानम् । यागस्तु ज्योतिष्टोमेन वर्गकामो यजेतत्यस्मिन् वाक्ये विधीयत इति युक्तम् । अन्यथा मत्वर्थलक्षणापत्ते रिति ।
अत्रोचते। यद्यपि यागोहेशेन सोमविधौ न मत्वर्थलक्षणा। तथापि यागस्याप्राप्तत्वात् सोमेन यजेतेत्यत्र न यागोद्देशेन सोमविधानं सम्भवति। न च ज्योतिष्टोमेनेत्यादिना प्राप्तत्वात्तदुद्दे शेन गुणमात्र विधीयत इति वाच्यम् । तस्याधिकारविधित्वेनोत्पत्तिविधित्वानुपपत्तेः। कम्मखरूपमात्रबोधको विधिरुत्पत्तिविधिः । तेन च विहितस्य कम्मणः फलविशेषसम्बन्धमात्रमधिकारविधिना क्रियते। फलविशेषसम्बन्धबोधकस्याधिकारविधित्वात् । यथा आग्नेयोऽष्टाकपालो भवतीति। एतदिहितस्य कम्मणः फलविशेषसम्बन्धमात्रं दर्शपौर्णमासाभ्यां स्वर्गकामो यजेतेति वाक्यं विधत्ते। तस्याधिकारविधित्वं नोत्पत्तिविधित्वम् ।
स्थादेतत् दर्शपौर्णमासाभ्यामित्येतस्य नोत्पत्तिविधित्वं सम्भवति। आग्नेयोऽष्टाकपाल इत्यादिवाक्यानर्थक्यापत्तेः ।
निश्चिद्रीकृतेऽपि तस्मिन् पूर्वपक्षे सिद्धान्तमाह पत्रीच्यत इति । ननु ज्योतिष्टोमेन यजेते त्यस्याधिकारविधिले कथमुत्पत्तिविधित्वानुपपत्तिः। उभयरूपत्वात्तस्येत्यत उत्पत्त्यधिकारवियोः स्वरूपं प्रतिपादयति कर्मवरूपमात्रेत्यादि। तेन उत्पत्तिविधिना । उत्पत्त्यधिकारविध्योरुदाहरणमाह ययेति । भालेय इति। इदच्च उत्पत्तिवाक्यम् । द्रव्यदेवताबोधकतया कर्मस्वरूपमात्रबोधकत्वात् । फलसम्बन्धमाचमिति । स्वर्गकामपदेनेति शेषः।
दर्शपौर्णमासाभ्यामित्य स्योभयविधित्वाङ्गौ कारे त्राग्नेयोऽष्टाकपाल इत्यस्य वैयर्यप्रसगात्। दर्शपौर्णमासाभ्यामित्यस्याधिकारविधित्वमेव युक्तम् । ज्योतिष्टोमवाक्यस्य तु उत्पत्त्य धिकारविधित्वाङ्गीकार न कस्यापि वैयर्थमिति पूर्वपची शकते स्यादेतदिति ।
For Private And Personal