________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यायप्रकाशः ।
Acharya Shri Kailashsagarsuri Gyanmandir
३१
तेत्यादीनामधिकारात् । तत्र हि यागो विधीयतामुत्पत्तिवाक्यसिहो वानूद्यतामुभयथापि करणत्वेनान्वयात् तृतीयान्तस्य तहाचित्वम् । अन्यथा अन्वयानुपपत्तेरिति । तस्मादुणविधौ । विनापि मत्वर्थ लक्षणया अन्वयोपपत्तेर्न मत्वर्थ लक्षणेति । अतश्च
माध्यायचतुर्थपादे उदा यजेत पशुकाम इत्यादी उङ्गिदादिशब्दानां कर्मनामधेयताधिकरण एवं विधाने वानुवादे वेति वार्त्तिको नेरित्याशयः । यद्यपि उहिदा यजेत पशुकाम इत्यादीनां यथा कर्मजन्यफलस्वाम्य बोधकत्वेनाधिकारविधित्वं तथा अप्राप्तकर्मविधायकत्वेन उत्पत्तिविधित्वमपीत्युत्यत्तत्यधिकारविवित्वम् । ज्योतिष्टोमेन स्वर्गकामी यजेतेतिवत् । तथाप्यधिकार विधित्वाविशेषात् तदुपक्रमवार्त्तिकवाक्यस्य पधिकार विधित्वमत्तमम् । ननूङ्गिदा यजेत पशुकाम इत्यादीनां तत्तन्नामकयागविशेषविधायकत्वान्नानुवादत्वमित्यत आह तत्रेति । तेषु अधिकारविधिषु मध्ये इत्यर्थः ।
योगो विधीयताम् उडिदा यजेत पशुकाम इत्यादिविधिभिः । अनूद्यतां वसन्ते ब्राह्मणोऽग्निमादधीत | ग्रौभे राजन्य: । शरदि वैश्यः । वर्षासु रथकार श्रादधीतेव्यादिविधिभिः । उभयथापि यागविधायकत्वे तदनुवादकत्वे वा । करणत्वेनान्वयादिति । यागस्येति शेषः । तदाचित्वं करणतावाचित्वम् । अन्यथा उभयचैव यागस्य करणत्वानङ्गीकारे । अन्वयानुपपत्तेरिति । तथाच उद्भिदा यजेतेत्यादय उत्पत्त्यधिकारविषयी विधानपदेनोक्ताः । वसन्ते ब्राह्मणोऽग्निमादधीतेत्यादयः केवलाधिकारविधयस्तु अनुवादपदेनाभिहिताः । तत्र उत्पत्त्यधिकारविधिषु यागस्य करणत्वानङ्गीकारे अन्वयानुपपत्तिः स्पष्टैव । केवलाधिकारविधिषु तु उत्पत्तिविधि प्राप्तयागस्य करणत्वमनङ्गीक्aत्य यदि वसन्तकालविशिष्टो ब्राह्मगोऽग्न्याधानं भावयेदिति यागस्य भाव्यत्वं मन्यते तदा तेषां कर्म्मजन्यफलभोक्तृत्वाप्रतिपादकतया अधिकार विधित्वमेव व्याहन्येत । तस्मादेषाअधिकार विधित्वोपपत्त्यर्थं वसन्तकालावच्छिन्नजीवनवान् ब्राह्मणोऽग्न्याधानेन फलं भावये - दिव्यवश्यमेव वक्तव्यम् । प्रकारान्तरेणान्वयासम्भवादिति भावः ।
For Private And Personal
गुणविधावपि मत्वर्थलचयावश्यकौति यदापादितं तदापत्तिनिरासमुपसंहरति तम्मादिति । नन्वेवमपि सोमेन यजेतेत्यत्र न विशिष्टविधानं गौरवान्मत्वर्थलचणापाताच्च । किन्तु दना जुहोतोतिवत् गुणमात्रविधायकत्वमस्त्वित्यादिग्रन्येन कृतं पूर्वपचमापत्तिनिरासेन दृढ़ोकल्य इदानीमुपसंहरति अतश्चेति ।