________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
२८
स्यात्। विवक्षितवाक्यार्थश्च विनैव मत्वर्थलक्षणयाङ्गीकृतः स्यात् । तस्मान्न गुणविधौ न मत्वर्थलक्षणा।
यत्त विधाने वानुवादे बेति वार्तिकं तत्प्रतीतिमवलम्बा, न वस्तुगतिम्। तथाहि यावद्धि अग्निहोत्रं जुहुयादिति वाक्यं नालोच्यते। केवलं दना जुहोतीति वाक्यमालोचते। तदा षष्ठाद्यन्यायेन होमस्याभाव्यतां जानतां प्रतिपदाधिकरणभावार्धाधिकरणवासनावासितानां भवत्येतादृशी मतिर्यद्दधिमता होंमेनेष्टं भावयेदिति । प्रतिपदाधिकरणे हि सोमेन यजेतेत्यादिषु किं. गुणधात्वर्थयोः फलभावनाकरणत्वेनान्वयः उत एकस्यैवेति सन्दिा प्रधानसम्बन्धलाभात् विनिगमनाविरहाच सर्वेषां फलभावनाकरणत्वेनान्वयमाशय लाघवादेकस्यैव भावनाकरणत्व
अनादृतं स्थादित्यर्थः। कल्पितविधरपि अङ्गविधित्वाविशेषादिति भावः । यदि तु. गुणविधावपि धात्वर्थस्य करणत्वेनैवान्वय इति स्वाभिमतसिद्धान्त इदानीमुपेक्ष्यते तदा सोमेन यजतेति वाक्यस्य. गुणविधित्वपक्षेऽपि अनुपपच्यभावाल्लक्षणामन्तरेणापि मदिवशिवोऽर्थो भवतावश्यमङ्गीकृती भवेदित्याह विवक्षितेति ।
गुणविधौ मत्वर्यलक्षणावादं निराकृत्योपसंहरति तस्मादिति । ननु विधाने वानुवाद वा याग: करणमिष्यत इत्यस्य वार्तिकसिद्धान्तस्य तर्हि की विषय इत्यत आह यचिति । प्रतीतिमापाततः प्रतीतिम् । वस्तुगतिं वास्तविकी प्रतीतिम् । तदेवोपदर्शयति तथाहौति । वाक्यं प्रधानविधिः । षष्ठाद्यन्यायेन षष्ठाध्यायप्रथमपादौयप्रथमाधिकरणेन ।। होमस्थाभाव्यतामिति । तत्र स्वर्गादिफलस्यैव भाव्यत्वसिद्धान्तनादिति भावः। प्रतिपदेति । द्वितीयाध्यायप्रथमपादीयप्रथमाधिकरण. एव प्रतिपदाधिकरणं भावार्थाधिकरणञ्च भाष्यकारादिभिर्दर्शितम् । लहासनया तदर्थज्ञाननन्यसंस्कारेण | वासितानां संस्कतानाम्, जातसंस्काराणामिति यावत् । ननु तनदधिकरणे किं सिद्धान्तितम् । येनः बज्ञानजन्यदृढ़तरसंस्कारवशात् गुणविधावपि तत्तगुणवता यागेनेष्टं भावयेदिति प्रतीतिझटित्युदेतीत्यतस्तद्दर्शयति प्रतिपदाधिकरणे हौति। उक्त हितीयाध्यायप्रथमाधिकरणे. पार्थसारथिमिश्रादिभिः ।
For Private And Personal