SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २८ www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir किञ्च भवतु श्रुत्यन्तरकल्पनं तथापि तत्सहततः प्रत्यक्ष एव वा विधेर्धात्वर्थाङ्गत्वेन गुणं विधत्ते, उत कल्पितं विध्यन्तरम् । कल्पितमिति चेत्र, श्रुतविधेर्व्यर्थत्वापत्तेः । न हि तेन तदा गुणो विधीयते । कल्पितविध्यन्तराङ्गीकारात् । नापि धात्वर्थ:, तस्य च वचनान्तरेण विहितत्वात् । अथ श्रूयमाण एव विधिः कल्पितश्रुतिमहतो धात्वर्थाङ्गत्वेन गुणं विधत्त इति चेत्, तर्हि तत्र कथं धात्वर्थस्थान्वयः । करणत्वेनेति चेत्र, अन्वयानुपपत्तेः । न हि सम्भवति दना होमेन चेत्यन्वयः । साध्यत्वेनैवान्वयो दध्ना होमं भावयेदिति चैत्र, तथा सत्यनुवादेऽपि धात्वर्थः करणत्वेनैवान्वेतीत्येतदुपेचितं लक्षणया अन्वयं सम्पाद्य दुखस्य धात्वर्थाङ्गत्वसम्पादनायागत्या पूर्वोक्तप्रयासाश्रयणम् । प्रकृते तु ज्योतिष्टोमेन यजेतेत्युत्पत्तिविधिप्राप्तेः सोमेन यजेतेव्यस्य गुणविधित्वाङ्गीकारेपपपत्तौ कथं तथाविधप्रयास श्राश्रयणीय इति भावः । श्रुत्यन्तरकल्पनेऽपि तस्यां कल्पितश्रुतौ यदि धात्वर्थस्य करणत्वेनान्वयेोऽङ्गीक्रियते तदा वाक्यभेदापत्तिः । यदि तु तत्र साध्यत्वेनान्वयेोऽभ्युपेयते तदा धात्वर्थस्य करणत्वेनैवान्वय इति प्रतिज्ञाहानिः । तानौ स्वीकृतायां प्रत्यचश्रुतावेव सा प्रतिज्ञाहानिः खीक्रियताम् चलं श्रुत्यन्तरकल्पनेनेत्याह किश्चेत्यादिना । मत्सतः कल्पितश्रुत्यन्त र सङ्घकृतः, विधिर्दना जुहोतीत्यादिः । धात्वर्थाङ्गत्वेन होमाङ्गत्वेन । गुणं दध्यादिकम् । अन्त्यकल्पमाशङ्कते कल्पितमिति । श्रुतविधेः दधा जुहोतौति प्रत्यक्ष विधेः । व्यर्थत्वापत्तेः विधायकत्वाभावेन निष्प्रयोजनत्वापत्तेः । ननु मा भूगुणविधायकत्वं किन्तु धात्वर्थहीमविधायकत्वादेव साफल्यमस्य स्यादित्यत श्राह नापीति । धात्वर्थ इति । तेन विधीयत इत्यनुषङ्गः । तस्य धात्वर्थस्य । वचनान्तरेण प्रधान विधिना । श्रद्यपचमिदानीं निराकर्तुमाशङ्कते अथेति । कल्पितश्रुतीति । वाक्यान्तरकल्पनया चावच्यान्वयकल्पनया वा प्राप्ततृतीयायुतीत्यर्थः । अन्वयानुपपत्ती हेतुमाह न होति । दधा होमेन चेति । भावयेदिति शेषः । वाक्यभेदापत्तेरिति भावः । उपेचितमिति । 1 For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy