________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यायप्रकाशः ।
Acharya Shri Kailashsagarsuri Gyanmandir
१८.
दना होमं भावयेदिति । न चायमस्ति नियमो भावनायां धात्वर्थस्य करणत्वेनैवान्वयो न प्रकारान्तरेणेति । षष्ठाद्यपूर्वपक्षानुत्थानापत्तेः ।
Bra fr यजेत स्वर्गकाम इत्यादौ प्रत्ययवाच्यायां बच्च माणार्थभावनायां समानपद श्रुत्या यागस्य भाव्यत्वमाशङ्क्य पुरुषार्थत्वेन परिहृतम् । यदि च धात्वर्थस्य करणत्वेनैव भावनायामन्वयस्तदा भाव्यत्वादेव नोदेतीति व्यर्थं षष्ठाद्यमधिकरणमापद्येत ।
-
न्वयो न तूपरतामपि करणाकाङ्गामुज्जौन्य धातर्थस्यापि करणत्वेनान्योऽभ्युपगन्तव्य इति भावः । गुणस्य करणत्वान्वयं धात्वर्थस्य साध्यत्वान्वयञ्च व्यञ्जयति दत्यादि । ननु सर्व्वचैव धावर्थस्य करणत्वेनान्वयनियमात् कथं गुणविधौ तस्य भाव्यत्वेनान्वयः सम्भवतीत्यापि परिहरति न चेति । नियमे व्यभिचारं प्रतिपादयति षष्ठाद्येति । षष्ठाध्यायप्रथमपादप्रथमाधिकर णेत्यर्थः ।
For Private And Personal
पूर्वपचानुत्यानं व्ययति षष्ठाये होति । भाव्यत्वमाशयेति । तथाच शास्त्रदीपिकायां पूर्वपचकारिका --- धात्वर्थस्यैव भाव्यत्वं पदश्रुत्या प्रतीयते ।
खर्गादेः खलु वाक्येन श्रुतेर्वाक्यञ्च दुर्बलम् ॥
पुरुषार्थत्वेनेति पुरुषस्येष्टत्वाभावेनेत्यर्थः । कष्टं कर्मेति न्यायात् कमावस्य freeम् यावत् समधिकसुखविशेषजनकत्वं नावगम्येत । अतः प्रधानविधौ खारसिकेच्छाविषयखर्गादेरेव भाव्यत्वमुचितं येन कणस्तत्साधनतावगमादनन्तरं कर्म्मण्यपि पुरुषेच्छा जायते । तथाच शास्त्रदीपिकायां सिद्धान्तकारिका ---
स्वर्गादि: कामनायोगात् फलत्वेनैव गम्यते ।
स्वारस्यात् पुरुषाणां हि कामना फलगोचरा ॥
एवञ्च यद्येकान्तत एव धात्वर्थस्य भाव्यत्वेनान्वयोऽसम्भवी, तदा असम्भवदन्वयाङ्गीकारेण पूर्वपचासम्भवात्तदधिकरणस्य निरर्थकत्वापत्तिरित्याह यदि चेति । तथाच धात्वर्थस्य माव्यत्वेनान्वयसम्भवेऽपि प्रधानविधौ पुरुषेच्छाविषयत्वासम्भवेन भाव्यत्वानङ्गीकारः समुचित एव । परन्तु प्रधानविधिना धात्वर्थस्य दृष्टविशेषसाधनत्वे प्रतिपादिते अङ्गविधिजन्यबोधकाय तथ्य धात्वर्थस्य पुरुषेच्छाविषयत्वसम्भवात् भाव्यत्वं सुघटमेवेति भावः ।