________________
Shri Mahavir Jain Aradhana Kendra
१८
www.kobatirth.org
न्यायप्रकाशः ।
Acharya Shri Kailashsagarsuri Gyanmandir
विधाने वानुवादे वा यागः करणमिष्यते । तसमीपे तृतीयान्तस्तद्दाचित्वं न मुञ्चति ॥ इति । तच विशिष्टविधाविव गुणविधावप्यस्ति मत्वर्थलक्षणेति देवीवम् । गुणान्वयानुपपत्त्या हि मत्वर्थलक्षणाङ्गीक्रियते । यदा च भावनायां धात्वर्थस्य करणत्वेनान्वयस्तदान्वयानुपपत्त्या साङ्गीकर्त्तव्या । गुणविधौ च न धात्वर्थस्य करणत्वेनान्वयः मानाभावात् । न हि दध्ना जुहोतीत्यत्र होमस्य करणत्वं श्रूयते तहाचकतृतीयाद्यभावात् । कल्पत इति चेन, गुणस्य तत्र विधित्मितत्वेन साध्याकाङ्क्षायां साध्यत्वकल्पनाया एवोचितत्वात्
।
विधान इति । विधाने प्रधानविधौ अनुवादे षङ्गविधौ वा । यागो भावनायां करणमिष्यते । याग इति कर्ममात्री पलचणम् । करणत्वे हेतुमाह तत्समीप इति । यतस्तत्समीपे भावनावाचकलिङ्पदसन्निधौ तृतीयान्तस्तृतीयान्ततयान्वययोग्यो यागशब्दस्तद्दाचित्वं करणताबोधकत्वं न मुञ्चति त्यजति । तृतीयान्तपदस्य करणतावाचकत्वावश्यभावादित्यर्थः । अतश्चेति । गुणविधावपि यागस्य भावनायां करणत्वेनान्वयात् मत्वर्थलक्षणामन्तरेण गुणस्य तदन्वयानुपपत्तेश्चेत्यर्थः । आपत्तिं निराकरोति पूर्वपची मैवमिति । यदि धात्वर्थस्य भावनायां करणत्वेनान्वयोऽभ्युपगम्यते तदैव गुणस्य तत्रान्वया-: नुपपत्त्या मत्वर्यलचणा पाङ्गीकाय्या । गुणविधौ धात्वर्थस्य करणत्वेनान्वय एवासिद्धः प्रमाणाभावात् । तत्कथं मत्वर्थलचणेत्याच गुणान्वयानुपपत्येति । प्रमाणाभावमुपपादयति म होति । श्रूयत इति । एतेन करणत्वं न श्रुत्यावगम्यत इति दर्शितम् । यजेतेत्यादौ सचैव तृतीयाद्यभावेऽपि यथा भावनाया: केनेति करणाकाङ्गत्वानुपपत्त्या अर्थापत्तिप्रमाणेन यागस्य करणत्वं कल्पाते तथाचापीति शङ्कते कल्पात इति 1 तत्र गुणविधौ । विधित्मितत्वेन विधातुमिष्टत्वेन । साध्याकाङ्गायां किं भावयेदिति भाव्याकाङ्क्षायाम् । साध्यत्वकल्पनाया, धात्वर्थस्य भाव्यत्वकल्पनायाः । उचितत्वादिवि । तथाच गुणविधी विधित्सित गुणस्यैव करणत्वेनान्वयेन, केनेति करणाकाङ्गानिवृतेः कथमित्याकाङ्गायाः संस्कारादौतिकर्त्तव्यताभिर्निवर्त्तनौयत्वादवशिष्टया किमित्याकाङ्क्षया धात्वर्थस्यैव भाव्यत्वेना
For Private And Personal