________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यायप्रकाशः ।
Acharya Shri Kailashsagarsuri Gyanmandir
१५
सिहस्य
चेत्तथापि सोमस्येतिकर्त्तव्यता त्वेनान्वयानुपपति: । वस्तुन इतिकर्त्तव्यत्वाभावात् । क्रियाया एवेतिकर्त्तव्यतात्वात् । द्रव्यंस्य केवलमङ्गत्वात् । अतएवेतिकर्त्तव्यतात्वाभावात् द्रव्यस्य प्रकरणादग्रहणम् । यथाहु: ।
नावान्तरक्रियायोगाहते वाक्योपकल्पितात् । गुणद्रव्ये कथम्भावैर्गृह्णन्ति प्रकृताः क्रियाः ॥ इति । तदेतदग्रे वच्यामः । किञ्च सोमेन यजेतेति हि यागस्योत्पत्ति
For Private And Personal
पचा
बलीयसः प्रातिपदिकसोमपदस्य स्वार्थप्रत्यायने विरोधाभावान्न सोमवति लक्षणा । दुपस्थितायास्तृतीयायास्तु मुख्यार्थस्य करणत्वस्याभिधाने यागस्य करणत्वोक्तिविरोधादितिकर्त्तव्यतालचणैवास्विव्याशङ्कार्थः । आशङ्कां निरस्यति तथापीति । इतिकर्त्तव्यत्वानुपपत्तौ हेतुमाह सिद्धस्येति । तर्हि कस्येतिकर्त्तव्यतात्वमुचितमित्यचाह क्रियाया एवेति । तथाच इतिशब्द: प्रकारार्थः । तेन कर्त्तव्यतायाः क्रियायाः प्रकार इतिकर्तव्यतेति योगात् क्रियाविशेषस्यैव क्रियाप्रकारत्वं सम्भवति । न द्रव्यस्य क्रियाप्रकारत्वसम्भव इति भावः । तर्हि द्रव्यस्य कथं यागान्वय इत्यत्राह द्रव्यस्येति । केवलमङ्गत्वात् इतिकर्त व्यतेतराङ्गत्वात् । अतएव केवलाङ्गत्वादेव । प्रकरणादग्रहणमिति । प्रकरणं हि कथं कुय्यादित्याकाङ्क्षा | तत्र प्रकारवाचिना कथं शब्देनाभिलापादिति कर्त्तव्यताया एव ग्रहणं न तु तदितराङ्गानामिति भावः ।
एतदेव प्रमापयति यथाहुरिति । नावान्तरेति । प्रकृता: प्रकरणीया: क्रिया यागादयः वाक्योपकल्पितात् वाक्यबीधितादवान्तर क्रियायोगात् चारीभूतक्रियायोगाहते गुणद्रव्ये गुणं द्रव्यञ्च कथम्भावैर्न गृह्णन्ति सम्बध्नन्ति । एतेन गुणद्रव्ययोर्यागसम्पादनद्दारैव योगसम्बङ्घत्वं न तु साक्षात् । तथा तयोर्वाक्यादेव ग्रहणं न प्रकरणादिति सिद्धम् । अग्रे प्रकरण विनियोग विचारप्रकरणे । वक्ष्यामः विशेषेण प्रतिपादयिष्यामः । द्रव्येऽपीति कर्त्तव्यतापढं कचित् क्वचित् प्रयुक्तम् । तत्र इतिकर्तव्यतापदमङ्गपरमिति स्वयमेव वक्ष्यते । परन्त्वङ्गत्वलचणायां मानाभावात् तत्र तत्र मीमांसकप्रयुक्तमिति कर्चन्यतापदं मुख्ययैव वृच्या द्रव्यं बोधयेदिति द्रव्यस्यापीतिकर्त्तव्यतात्वं मीमांसासम्मतमेव वाच्यमित्यत श्राह किश्चेति । उत्पत्तिवाक्यमिति । कर्मस्वरूपमात्रबोधकत्वादिति भावः ।
ननु