________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाधः।
शिष्टा इति । शिष्टा उपदिष्टा इत्यर्थः । यथा सोमेन यजेतेति । अत्र सोमयागयोरप्राप्तत्वात् सोमविशिष्टयागविधानम्। सोमवता यागेनष्टं भावयेदिति। न चोभयविधाने वाक्यभेदः । विशिष्टस्यैकत्वात् । विशिष्टविधौ च मत्वर्थलक्षणा। यथा सोमपदेन मत्वर्थों लच्यते सोमवतेति। न हि मत्वर्थलक्षणां 'विना सोमस्यान्वयः सम्भवति । यदि तावत्सोमयागयोरैकरूप्येण भावनायां करणलेनैवान्वयः सोमन यागनेष्टं भावयेदिति । तत उभयविधाने वाक्यभेदः । सोमस्य यागवत् फलभावनाकरणत्वेन प्राधान्यापातो यामार्थत्वानुपपत्तिश्च । यागे द्रव्या
शिष्टा लपदिष्टासदा ते सर्व एव एकविधिविधेया इति तात्पर्यम् । उभयोरप्राप्तत्वं दर्भयति यथेति। विशिष्टविधः प्रकार प्रतिपादयति सोमवतेति । ननु सोमयागयीईयोरेवाप्रापत्वात् इयोरेव विधेयत्वमती विधेयभेदादाक्यभेदापत्तिरित्यत आइ नचेति । विशिष्टखेति । सोमविशिष्टयागत्वेन एकस्यैव विधेयत्वादिति भावः ।
बनु सोमविशिष्टस्वं केनाक्षरेण लभ्यते येन तहिशिष्टयागस्यैकत्वं स्थादित्यत पार विशिष्टविधौ चेति । मत्वर्थ लक्षणा वैशिष्ट्य लक्षणा। कस्मिन् पदे लक्षणेत्यवाह यथेति । मत्वः सोमविशिष्टत्वम् । वक्षपाहेतुमनुपपत्तिं दर्शयति नहौति । अन्वयः सम्भवतीति । सोमवयागत्वयोः सामानाधिकरण्यासम्भवादिति भावः । यदि तु सोमयागयौईयोरेष भावनाधामन्वयः स्वीक्रियते तदा वाक्यभेदः स्यादित्याह यदि तावदिति । एकरूप्येण प्रधानभावेन । तथान्वयं दर्शयति सोमन यागनेति । उभयविधाने उमयोः करणत्वविधाने । वाकाभेद इति। गुणानाञ्च परार्थत्वादसम्बन्धः समत्वात् स्यादिति न्यायेन यो: करणत्वेन समत्वात् परस्परासम्बन्धात् करणभेदेन सोमेन भावयेत् यागेन भावयेदिति वाक्यभेदः स्थादित्यर्थः। दोषान्तरमाह सोमस्येति । यागवदिति । यथा यागस्य करणत्वेन फलभावनायां प्राधान्यं तथा यागनिरपेक्षसीमस्थापि प्राधान्यमापततीति भावः । तथात्वे सोमस्य यागोपकारकत्वममि व्याइन्यतेत्याह यागार्थ त्वेति । अनुपपत्त्यन्तरमाह याग इति । द्रव्येति । देवतोद्देशन द्रव्य त्यागरूपस्य याग स्य द्रव्यविशेषसापेक्षतया द्रव्यविशेषानुपादाने
For Private And Personal