________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
सच वेदो विधिमन्त्रनामधेयनिषेधार्थवादात्मकः । तत्र विधिः प्रयोजनवदर्थविधानेनार्थवान् । स चाप्राप्तमर्थं विधत्ते । यथाग्निहोत्रं जुहुयात् स्वर्गकाम इति विधिरप्राप्तं प्रयोजनवडोम विधत्ते। अग्निहोत्रहोमेन स्वर्ग भावयेदिति । ... यत्र तु कर्म प्रकारान्तरेण प्राप्तं तत्र तदुद्देशेन गुणमात्रविधानम्। यथा दना जुहुयादिति । अत्र होमस्याग्निहोत्रं जुहुयादित्यनेन प्राप्तवाडोमोद्देशेन दधिमानविधानम्। दना होमं भावयेदिति ।
यत्र तूभयमप्राप्तं तत्र विशिष्टं विधत्ते । तदुक्तं न चेदन्येन
वेदं विमजति स च वेद इति । प्रयोजनेति । धर्मविधानेनेत्यर्थः। स च विधिः । प्राप्त प्रमाणान्तरेणाप्राप्तम् । अर्थं नि:श्रेयससाधनम् । तथाच अप्राप्तः प्रमाणातरपार्थतया पनवगतो योऽर्थस्तं विधत्ते बोधयतीत्यर्थः । एतेन बलवदनिष्टाननुबन्धीष्टसाधनतयानवगतस्य बलवदनिष्टाननुबन्धीष्टसाधनस्य बोधकवाक्यत्वं विधित्व मिति विधिलक्षणं फलितम् । उदाहरति यथेति । प्रयोजनवत् बलवदनिष्टाननुबन्धौष्टसाधनम् । विधानप्रकारमाह अग्निहोत्रहीमनेति । ननु दना जुहोतोत्यादः कथं विधिवं स्यात् होमस्य प्रमाणान्तरेण प्राप्ततया अप्राप्तार्थबोधकत्वाभावादित्यत पाए यत्र विति। तदुदेशेन तत्कर्मानुवादेन गुणमात्रविधानमिति। मात्रपदेन गुणसहितकर्मविधानव्यात्तिः । तथाच तत्र कम्मांश अप्राप्तवाभावेन विधित्वासम्भवेऽपि गुणस्यार्यतया प्रमाणान्तरेणानवगतत्वात् अर्थभूतस्य तस्य प्रतिपादनादेव तदंशे विधित्वमसुम मिति भावः । उदाहरति यथेति । अत्र कर्मण: प्रमाणान्तरेण प्राप्तत्वं दर्शयति अत्रेति । गुणस्याप्राप्तत्वेन कर्मोद्देशेन विधानमिति प्रतिपादयति होमोद्देशेनेति । गुणमात्रविधानप्रकारं प्रतिपादयति दधा होममिति । एतेन गुणविधौ कर्मण एव भाव्यत्वं फखान्तराभावादिति दर्शितम् ।
गुणकर्मणोरुभयोरप्राप्तत्वे तु गुणविशिष्टकर्मविधानमित्याह यत्र विति। तत्र मौमांसकसम्मतिमाह बढुक्तमिति । न चेदिति । चेत् यदि अन्येन प्रमाणान्तरेण न
For Private And Personal