________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाधः ।
अतो लिङादिज्ञानस्य करणत्वेनान्वयः। इतिकर्तव्यताकाझायां प्राशस्त्यज्ञानमितिकर्तव्यतात्वेन संबध्यते। तच्च प्राशस्त्यज्ञान वायुर्वै क्षेपिष्टा देवतेत्याद्यर्थवादैर्जन्यते । ते यर्थवादा: स्वार्थप्रतिपादने प्रयोजनमनुपलभमाना लक्षणया क्रतो; प्राशस्त्यं प्रतिपादयन्ति। स्वार्थमाचपरत्वे आनर्थक्यप्रसङ्गात् । न चेष्टापत्तिः। अध्ययनविध्युपात्तत्वेनानर्थक्यानुपपत्तेः । तथाहि । स्वाध्यायोऽध्येतव्य इत्यध्ययनविधिः सकलस्य वेदस्याध्ययनकर्त्तव्यतां बोधयन् सर्बो वेदः प्रयोजनवदर्थपर्यवसायीति सूचयति । निरर्थकस्याध्ययनानुपपत्तेः । उपसंहरति अत इति । लिङादिज्ञानं लिङाद्यर्थज्ञानमिति वक्तव्यम्। अर्थज्ञानमन्तरण शब्दमाचत्रवणात् प्रत्युत्पत्तेरसम्भवात् । तथाचोक्तम् ।
लिङोऽभिधा सैव च शब्दभावना भाव्या च तस्याः पुरुषप्रवृत्तिः ।
सम्बन्धबोधः करणं तदीयं प्ररीचना चागतयोपयुज्यते । सम्बन्धयोधः लिङादेः प्रवर्तनाशक्तिमत्त्वज्ञानम् । .. इतिकर्तव्यताकाङ्क्षायाम् उपकारकाकाङ्कायाम्। प्राशस्त्यज्ञानं प्रहत्तिविषयकर्मण: प्रशस्त ताज्ञानम् । इतिकर्तव्यतात्वन प्रवृत्त्युपकारकत्वेन । ननु तेषामर्थ वादानां प्राशस्यार्यता नीपलभ्यते तत्कथमेषां प्राशस्य ज्ञानजनकत्वं वर्ण्यत इत्यत आह ते होति । खार्थप्रतिपादने खारसिकार्थप्रतिपादने। प्रयोजनेत्यादि । निष्पयोजना इत्यर्थः । लक्षणया प्राशस्य लक्षणया। क्रतो: प्राशम्त्य मिति। तथाच वायव्यं वेतमालमेत भूतिकामः । वायुबै क्षेपिष्ठा देवता । वायुमेव स्वेन भागधेयेनोपधावति स एनं भूति गम यतौति श्रूयते । पत्र यतः क्षिप्रगामिस्वभावतया क्षिप्रफलप्रदो वायुरस्य पशोवता पत: प्रशस्तमिदं वायव्यश्वेतालम्भनमित्येवं क्रतोः प्राशस्यं प्रतिपादयन्त्यर्थवादा इति भावः । ननु मुख्यार्थपरत्वानुपपत्तिमन्तरेण लक्षणा नोचितेत्यती मुख्यार्थपरत्वानुपपत्तिं दर्शयति स्वार्थमात्रेति । स्वारसिकार्थमात्रेत्यर्थः । पानर्थ क्येति । निष्पयोजनत्वे त्यर्थः । तस्येष्टत्वं निराकरीति न चेति। अध्ययनविध्युपातत्वेन अध्ययनविधिविषयत्वेन । तदेव समयति तथाहीति । खाध्याय इति समस्तवेदीपलक्षणम्। प्रयोजनवदथेति । वथाच यद्यर्थवादामां निष्पयोजनत्वं नहि तेषामध्ययनविधानमनुचितमिति भावः ।
For Private And Personal