________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पर्थसंग्रहः ।
१६० इन्द्रियसन्निकर्षाभाववति एकदेशान्तरे लिङ्गिरूपे या बुद्धिरुत्पद्यते सा बुद्धिरनुमानमनुमितिरित्यर्थः । अत्र केचित्। व्याप्ति ज्ञानत्वेन व्याप्तिज्ञानकारणकम् ज्ञानमनुमितिः । च्याप्ति ज्ञानानुव्यवसायं प्रति व्याप्तिम्मरणं प्रति च व्याप्तिज्ञानसा कारणत्वेपि व्याप्तिभानत्वेन कारणलाभावान्नातिव्याप्तिः। अनुव्यवसायं प्रति विषयत्वेन मा तिं प्रति च खसमानविषय कानुभवत्वेन ब्याप्तिज्ञानसा कारणत्वात् । अनुमानप्रमाणन्तु व्याप्तिज्ञानम्। तसाव स्वजन्य व्यापारवत्तासम्बन्धे नानुमितिकारणत्वात् । अवान्तरव्यापारस्तु वहिव्याप्यधूमवानयं पर्वत इतादि परामर्शो व्याप्तिसंस्कारी वेतनाहुः ।
प्रागत ज्ञातसम्बन्धसैप्रतयादिभाष्यग्रन्थानुसारिणस्तु । व्याप्यत्वेन ज्ञायमानलिङ्गज्ञानजन्यज्ञानमनुमितिः। अनुमानन्तु लिङ्गज्ञानम् अवान्तरव्यापारी व्याप्तिमंस्कारीबीधः । तथाचादौ महानसादिषु धूम वहिव्याप्तिज्ञाता। अनन्तरं कदाचित् व्याप्यत्वेन ज्ञातसा धूमसा पर्वते दर्शनम् । तदनन्तरमेव धूमीवहिव्याप्य इति प्राक्तनानुभवजन्यसंस्कारोबोधस्तदनन्तरमेव पर्वतोऽयं वह्निमानित्यनुमितिर्जायते। एवञ्च धूमज्ञानं व्याप्तिसंस्कारोबोधद्वारा अनुमितिकारणत्वादनुमानम्। अनुमितेः संस्कारजन्यत्वेपि न म तित्वापत्तिराशझनीया। स्म ते: संस्कारमावासाधारणकारणकत्वामुपगमात् । अव तु लिङ्गज्ञानसमापि कारणत्वेन तथात्वाभावात् । लिङ्गज्ञानञ्च प्रत्यक्षानुमितवाद्यन्यतम ज्ञानमावम् । एवञ्चानागतेविनष्टेपि लिङ्ग लिङ्गिनी नानुमितानुपपत्तिः। विनष्टानागतयोरपि ज्ञानसम्भवात् ।
व्याप्तिन्तु स्वव्यापकसाध्यसामानाधिकरण्यम् । तद्यापकत्वञ्च तहनिष्ठातान्ताभावाप्रतियोगित्वम् । तथाच साधनत्वेन योऽभिमतम्तदधिकरणे यस्थातान्ताभावी नाम्ति तथाविधसाध्ये न सह एकाधिकरणवृत्तित्वमिति फलितम्। साच व्याप्तियभिचारादर्शने सति सहचारदर्शनान्निश्चीयते। तथाचोक्तम्
साहित्ये मितदेशत्वात् प्रसिद्ध वह्निधूमयोः । व्यतिरकस्य चादृष्टे गमकत्वं प्रकल्पितस्मिति ॥
धूमन्तु दृष्टिमात्रेण गमकः सहचारिण इति च । तच्च सहचारदर्शनं भूयोदर्शनं येन सर्वव ब्याानुमानं समात्। अतएवोक्त' शास्त्रदीपिकायाम्।
२२
For Private And Personal