________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५८
अर्थसंग्रहः। मच प्राशस्यादिवोधस्य निष्पयोजनत्वेन नार्थवादस्यार्थवत्त्वमिति वाच्यम् । पालस्यादिवशादप्रवर्त्तमानस्य पुंसः प्रवृत्त्यादिजनकत्वेन तहोधस्योपयोगात् । स पुनस्त्रेधा तदुक्ताम्। विरोधे गुणवादः स्यादनुवादोऽवधारिते।
भूतार्थवादस्तड्डानादर्थवादस्त्रिधा मत इति ॥ अस्यार्थः । प्रमाणान्तरविरोधे सत्यर्थवादो गुणवादः । यथा आदित्यो यूप इत्यादि। यूपे आदित्याभेदस्य प्रत्यक्ष
जातमती वर्षाभ्यन्तरे रोदनस्यावश्यम्भावितेति प्रतिपादनहारण वर्हिषि रजतदानस्य निषेध्यसा निन्दितफलजनकतया निन्दितत्ववीधनेनार्थवत्त्वमित्यर्थः ।
ननु विधिनिषेधाभ्यामेव निष्कम्पप्रवृत्तिनिहत्ती जायते। अलमर्थवादजनितप्राशस्त्यनिन्दितत्वप्रतीत्येति वैयर्थ्यतादवस्थ्यमितवापत्तिं निराकरोति न चेति । प्राशस्त्यादीतग्रादिपदानिन्दापरिग्रह. । बालसादौतादिपदात् निषेधपालनवैमुख्यप्रयोजकोत्कटरागपरिग्रहः। अप्रवर्त्तमानसा अनिवर्तमानसा च। प्रकृत्यादीत्यादिपदान्नित्तिग्रहणम्। तबोधसा प्राशस्यादिज्ञानसा । उपयोगादिति । प्राशस्त्यादिज्ञानस्योपयोगितया तज्जनकवाक्यसप्राप्युपयोगित्वमितिभावः । तथाच अलसादीनां प्रवृत्तिनिवृत्ती जनयितुमसमर्थतया अवसौदन्त्या विधिनिषेधशक्त : प्राशस्त्य निन्दितत्वज्ञानोत्पादनहारिणोत्तम्भकतया विधिनिषेधोपकारकत्वे नार्थवादानां प्रामाण्यमितिसिद्धम् ।
अर्थवादं विभजति स पुनरिति। विधिशेषी निषेधशेषश्वेतार्थः । वैविध्ये प्रामाणिकसंवादमाह तदुक्तमिति। कारिका ब्याचष्टे, असनार्थ इति । प्रमाणान्तरविरोध प्रताधादिप्रमाण विरोधे । गुण वादोदाहरणमाह यथेति । अत्र प्रमाणान्तरविरोधमुपपादयति यूपे इति। आदितग्राभेदसति । नौलोघट इतात्र घटसा
For Private And Personal