________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१४८ अर्थसंग्रहः। मित्यनेनैव प्राप्तत्वात्। किन्तु सामान्यशास्त्रप्राप्तयेयजामहमित्यनुवादेन तस्यानुयाजव्यतिरिक्तविषयत्वं विधौयते। यद् यजतिषु येयजामहं करोति, तदनुयाजव्यतिरिक्तेष्वेवति।
नन्वबं सामान्यशास्त्रप्राप्तस्य विशेषे सङ्कोचनरूपादुप
यजतिषु येयजामहं करोतीति वाक्यात् यागमात्र येयजामहकरणसा विहितत्वेन पनुयाजातिरिक्तयागेपि तसा प्राप्तत्वात् विधानानुपपत्ते रितिभावः । तर्हि किमत्र विधेयमितप्रवाह किन्विति। सामान्य शास्त्र ति। यजतिषु येयजामहं करोतीति शास्त्रे तार्थः। तसा सामानाशास्त्रप्राप्त येयजामहकरणसा। अनुयाजव्यतिरिक्तविषयत्वम् अनुयाजभिन्नयागमावनिष्ठत्वम्। विधीयते वोध्यते। तदेव व्यञ्जयति यदिति। करोतीतानेनान्वितम् । यद् येयजामहकरणमितार्थः। तथाच दशमाध्याथाष्टमपादे।
प्रतिषेधः प्रदेशेऽनारभ्यविधाने च प्राप्तप्रतिषिद्धत्वात् विकल्प: स्यात् ।
इति सूचण साक्षादतिर्दशस्थले अनारभ्यविधानस्थले च प्रतिषेधी विकल्पः स्यात् । तत्तत्प्रमाणप्राप्तत्वात् प्रतिषिद्धत्वाञ्च । इति पूर्बपक्षयित्वा।
अपि तु वाक्यशेषः स्यादन्याय्यत्वादिकल्पस्य विधीनामकदेश: स्यात् ।
इति सूत्रेण सिद्धान्तितम् । सिद्धान्तसूत्रार्थस्तु अपित्विति पूर्वपक्षव्याहृत्तिः । नानुयाजेष्वित्यादिवाक्य न प्रतिषेध इतार्थः । किन्तर्हि, वाक्यशेष: स्यात्, अनुयाजेन सह नञः सम्बन्धाल्लब्धसा अनुयाजभिन्नेषु येयजामहः कार्य इति वाक्यापसा साकाश्तया पृथकपर्यवसानासम्भवात् पूर्ववाक्यसप्रकदेश: स्यात्। अती येयजामहकरणानुवादेन सामान्यशास्त्र प्राप्तयजतेरनुयाजातिरिक्तत्वविधानाविधीना. मेकर्दश: स्यात् । अत्र हेतुः, प्रतिषेधपरत्वे यो विकल्प आपद्यत तसाष्टदोषदुष्टत्वेनान्याय्यत्वादिति।
एवंविधपर्युदामीपसंहारयोरभेदापत्तिमाशङ्कले नन्विति । एवं नानुयाचित्य व
For Private And Personal