________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३६
अर्थसंग्रहः ।
पदार्थविरोधिवोधकत्वम् । यथा घटो नास्तीत्यादौ
अस्तीतिशब्दसमभिव्याहृतो नत्र घटसत्त्वविरोधि घटासत्त्व ' गमयति । तद्ददिह लिङ्समभिव्याहृतो नञ, लिङर्थप्रवर्त्तनाविरोधिनों निवर्त्तनामेव वोधयति । विधिवाकाश्रवणे अयं मां प्रवर्त्तयतीति प्रतीतेः । तस्मानिषेधवाकास्थले निवर्त्तनैव वाकप्रार्थः ।
Acharya Shri Kailashsagarsuri Gyanmandir
अव प्रथमा भावना पुरुषप्रवृत्तिरूपा द्वितीया तु प्रवर्त्तनारूपा । तस्या नञर्थेमान्वये किमाया मितात आह नञश्चेति । खसमभिव्याहृतेति । खान्वितार्थः । मञः खसमभिव्याहृतपदार्थविरोधिबोधकत्वं दृष्टान्तेन साधयति यथेति । श्रस्तीति शब्दसमभिव्याहृतः अस्तौतिपदेनादितः । घटसत्त्वविरोधीति घटसत्त्वघटासत्त्वयो र्युगपदेकवानवस्थानादितिभावः । दान्तिकेपि तद्योजयति तदिति । इह म कलञ्ज' भक्षयेदिति निषेधवाक्ये । लिङ्समभिव्याहृतः । लिङा सहोञ्चरितः । लिङर्थेति । लिङर्थो या प्रवर्त्तना तदिरोधिनों तया सहैकचानवस्थायिनीम् । निवर्त्तनां निवृत्तुप्रत्पादनाम् । प्रवर्त्तनाया लिङथेवे प्रमाणमाह विधिवाका श्रवण इति । अयं विधिः । मां प्रवर्त्तयति मदीयप्रवत्तिमुत्पादयति । प्रतीतेरिति । तथाच नत्र पदासमभिव्याहारस्थले लिङो यदि धात्वर्थकरणिकाम् फलभावनाखग्रां प्रवत्तिमुत्पादयतीति प्रतौतिजनकत्वं तदा नञ पदसमभिव्याहारस्थले तहिरोधिता प्रतिपादनावश्यम्भावात् सुतरां धात्वर्थ करणिकामिष्टभावनाखयां प्रवत्तिं प्रतिवन्नातीति प्रतीतिजनकत्वमिति निषेधवाकास्य निवर्त्तकत्वमेव सिध्यतीतिभावः । निवर्त्तकवाकस्य निषेधत्वमित्युक्तम् । तदुपसंहरति तस्मादिति ।
पुरुष
wa शास्त्रदीपिकायां षष्ठाध्यायद्वितीयपादे, नञ्भक्षयत्योः सन्निधिवशात् भचणाभावः प्रतीयते । aa भक्षणाभावो अननुष्ठेयत्वादविधेय इति तद्धेतुः सङ्कल्पो विधीयते इति पूर्व्वपचयित्वा सिद्धान्तितम् ।
नञ भचयतयोरेवन्तु स्वार्थ हानि: प्रसज्यते । सङ्कल्पलक्षणाह्यत्र श्रुतेरतान्तवाधनम् ॥
For Private And Personal