________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
१२९ पत्तिशिष्टान्यादीनां वलीयस्त्वाईखदेवशब्दस्य विखदेवदेवताविधायकत्वं न सम्भवतीति कम्मनामधेयत्वम् ।
वस्तुतस्तु तत्प्रख्यशास्त्रादेवास्य कम्मनामधेयत्वम् ।
खेति। तेषु प्रथमे पर्वणि अष्टी यागा विहिताः । भाग्यमष्टाकपाल निर्बपति, सौम्य धरु', सावित्रं हादशकपालम्, सारखतं चरु', पौषणं चरुं, मारुतं सप्तकपालम, वैश्वदेवीमामिक्षां, द्यावापृथिव्यमेककपालञ्चेति। तेषामष्टानां यागाना सन्निधाविदमानायते वैश्वदेवेन यजेतेति। तचा यादीन् यागान् यजेतेतानेनानूद्य किं वैश्वदेवशब्देन देवतारूपोगुणस्तेषु विधीयते किम्बा तेषां नामधेयमिति संशय नामधेयत्वपचे नामी विधेयत्वासम्भवात् यजेतेतासमानुवादताया अङ्गीकृतत्वाञ्च समस्तवाक्यस्यैवानुवादता स्यादती देवतारूपगुणविधिरेव । यद्यपि वैश्वदेव्यामामिक्षायां विश्वेदेवा देवताः प्राप्ता तथापि आग्न यादिषु सप्तसु अप्राप्तवादिधीयन्ते। तेष्वग्न्यादयी देवताः सन्तीति चेत् गत्यभावात् विश्वैर्देवैर्विकल्पेन सन्तु। ननु एकएव शब्दः सप्तसु विधिरामिक्षायान्वनुवाद इत्यनुचितमेवेतिचेन्न यावदप्राप्तं तावद्विधीयतप्रति यवाप्राप्तिस्तत्रैव विधानस्यादुष्टत्वात्। तथाचाचाधिकरण तन्त्रवार्तिककाराणां पूर्बपक्षवारिका।
प्रकृतत्वाविशेषेपि यत्र प्राप्तिर्न विद्यते।
विधस्तवीपसंहारान्न बैकप्य भविष्यति ॥ अत्रैव प्रथमाध्यायचतुर्थवाद पूर्वपक्षसूत्रम् ।
वैश्वदेवे विकल्प इति चेत्। तब सिद्धान्तसूत्रम्।
न या प्रकरणात् प्रत्यक्षविधानाञ्च नहि प्रकरणं ट्रब्यसपति । प्रकरणात् प्रत्यक्षविधानाच्च प्राप्तयोर्विकल्पो न भवितुमर्हति। हि यस्मात् प्रकरणं श्रुत्युक्तस्य द्रव्यस्य पदार्थस्य वाधने समर्थं न भवतीत्यर्थः ।
तथाहि अग्न्यादीनां देवतात्वं प्रत्यक्षश्रुतिवीधितम् । विशेषां देवानान्तु देवतात्वं वाक्येन वीधितमपि न साक्षात् । नहि आग्ने यादियाग विश्वेषां देवानां
१७
For Private And Personal