________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
११७ मामधेयत्वञ्च निमित्तचतुष्टयात् । मत्वर्थलक्षणाभयात्, वाक्यभेदभयात्, तत्प्रख्यशास्त्रात्, तहापदेशाहेति । तत्रीभिदा यजेत पशुकाम इत्यत्रोभिच्छब्दस्य यागनामधेयत्वं मत्वर्थलक्षणाभयात्। तथाहि न तावदनेन वाक्येन फलप्रति यागविधानं, तत्प्रति च गुणविधानं युज्यते। वाक्यभेदापत्तेः। उनिच्छब्दस्य गुणसमर्पकत्वे च यागस्याप्य प्राप्तत्वात् गुणविशिष्टकम्मंविधानं वाच्यम् । उद्भिदता पशु भावयेदिति विशिष्टविधौ मत्वर्थलक्षणेत्युक्तमेव ।
मनूनिच्छब्दात् कुतस्तन्नामत्वं यागसा प्रत्येतव्यमिति जिज्ञासायां हेतुमाह उहिदा यागनेति । सामानाधिकरण्येन उङ्गिदयागपदयीरे कविभक्निकत्वेन। नामधेयान्वयात् उनिच्छन्दसा नामधेयरूपेणान्वयात् । नामः सामानाधिकरण्येनान्वयसा ऐरावतेन गजेन यातीत्यादौ व्युत्पत्तिसिद्धत्वादितिभावः । ननु सीमेन यजेतेतावापि सामानाधिकरण्य नान्वयकल्पनया नामधेयरूपेणानुयोस्विताती नामधेयत्वकल्पनानिमित्तमुपदर्शयति नामधेयत्वञ्चेति। निमित्तचतुष्टयादिति। तथाच वक्ष्यमाणनिमित्तचतुष्टयान्यतमसझाव एव सामानाधिकरण्ये नान्वयकल्पनया नामधेयत्वं वाच्यमितिभावः। निमित्तचतुष्टयमाह मत्वर्थेत्यादि ।
उनिच्छन्दसा यागनामधेयत्वे तेषां कतमन्निमित्तमित्यत्राह तव ति। तेषु निमित्तेषु मध्ये । मत्वर्थलक्षणां विशदयति तथाहौति। फलं प्रति पशुफलमुद्दिश्य । सं प्रति यागमुद्दिश्य । गुणविधान ब्रीहिभिर्यजतेत्यत्र व उद्भिद्रूपगुणविधानम् । यद्यपि उभिन्नामकीवस्तुविशेषः कश्चिन्नास्ति लोकप्रसिद्धो यसा यागकरणता सम्भवेत् । तथापि उद्भिद्यते भूमिरनेनेतावयवशक्ताा उगिच्छन्दः खनित्रवाची भवितुमर्हति । खनित्र ण यजेतेति वोध: सम्भवति चेतिभावः । वाक्यभेदापत्ते रिति। एकसा उद्भिदा यजेतेति वाक्यसा फलोद्देशन यागविधायकत्वे तयागोद्देशेन उद्भिद्रूपद्रव्यविधायकत्वं च यागेन पन भावयेत् तच्च यागमुहिदाख्यद्रत्येण भावयेदित्येवं
For Private And Personal