________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०२
अर्थसंग्रहः। नैमित्तिके कम्मणि निमित्तनिश्चयः । नित्ये सन्धयोपासनादौ शुचिविहितकालजीवित्वम् । अतएव राजा राजसूयेन खाराज्यकामो यजतत्यनेन विधिवाक्येन स्वाराज्यमुद्दिश्य . यागं विदधतापि न स्वाराज्यकाममात्रस्य तत्फलभोतात्वं प्रतिपाद्यते। किन्तु राज्ञः सतः स्वाराज्यकामस्यैव । राजत्वस्यापि अधिकारिविशेषणत्वेन श्रवणात् । क्वचित्तु पुरुषविशेषणत्वेनाश्रुतमप्यधिकारिविशेषणम् । यथा
श्रूयते तद्धर्मवत एव फलखाम्य सिध्यतीति नान्योन्याश्रयः । तथाच फलखाम्य' फलसम्बन्धयोग्यत्वं, योग्यताच यधर्ममन्तरेण फलसम्बन्धी न सम्भवति तद्धर्मवत्त्वम् । तथाच सति, नियोज्यस्य यो धर्मः श्रूयते तद्धर्ममन्तरण तत्फलसम्बन्धासम्भवात् तद्धर्मवत एव फलसम्बन्धयोग्यतया फलखाम्यमितापपनमितिभावः ।
विधिप्राप्त पुरुषविशेषणं दर्शयति यथेति। फलकामनेति। स्वर्गादिफलकामनायाः पुरुषविशेषणत्वादितिभावः। स्वाराज्यं स्वर्गराज्यम्, अब खः पदं निरवच्छिन्नसुखानुभवजनकस्थानपरम्। नतु
यन्न दुःखेन सम्भिन्नं नच ग्रस्तमनन्तरम् ।
अभिलाषोपनीतं यत् तत् सुख' खःपदास्पदम् ॥ इतुक्त सुखविशेषपरम् । राजत्वान्वयानुपपत्तेः। राज्ञः सत इति । राजत्वे सति खाराज्यकामत्वमधिकारिविशेषणमितिभावः। ननु विधिवाक्येषु नियोज्यविशेषणत्वेन श्रूयमाणधर्मवाधिकारिविशेषणत्वमुक्तम् । तथा सति अश्रुतफलकेषु विश्वजिदादिषु प्रमाणान्तरावगतवर्गकामनाया अधिकारिविशेषणत्वानुपपत्तिरितात आह क्वचिदिति। अधिकारिविशेषणं नियोज्यविशेषणम् । तथाच फलखाम्यं फलसम्बन्धयोग्यता। साच यथा नियोज्यस्य वेदवोधित धर्मविशेषशालित्वं तथा प्रमाणान्तरावगतधर्मविशेषवत्त्वमपि। तदभावे फलसम्बन्धा..सम्भवाविशेषात् । एवञ्च यथा विश्वजिदादौ अनुमानप्रमाणवलेन वर्गकामनाया
For Private And Personal