________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः । सौतेत्यादिना शुचिविहितकालजीविनः सन्ध्योपासनजन्यप्रत्यवायपरिहाररूपफलखामा वोध्यते । तच्च फलखामा तस्यैव, योऽधिकारविशिष्टः। अधिकारच यदिधिवाकाषु पुरुषविशेषणत्वेन श्रूयते । यथा काम्ये कम्मणि फलकामना ।
हिरण्य नश्येदाने यादीनि निर्बपेदिति भाषाधृता श्रुतिः परिग्राह्या। गृहदाहादावितादिपदात् हिरण्यनाशपरिग्रहः । निमित्तवतो रहदाहादिरूपनिमित्तनिश्चयवतः । पापक्षयेति गृहदाहादिसूचितपापक्षयकामनाया अश्रुतत्वेप्यर्थसिद्धत्वात् तस्यैव भावात्वप्रतीतेरितिभावः। प्रथमोदाहरणे फलसा श्रुतत्वं, द्वितीये चाश्रुतत्वे प्यर्थसिद्धत्व दर्शितमिदानौं . प्रमाणान्तरकल्पनीयफलखाम्यवोधकमुदाहरति एवमिति। पूर्बोदालतवदितार्थः । शुचिविहितकालेति। शौचविशिष्टविधिवोधितकालतार्थः । शुचितत्कालजीवी कर्मयादिति विधरितिभावः । वोध्यतइति। सन्धयोपासनाद्यभावसा प्रतावायसाधनताया अर्थवादावगम्यत्वात् सन्धीपासमसा सुतरां तत्परिहारसाधनत्वं सिध्यति । यत् यसा साधनं सदभावस्तत्परिहारसाधनमिति नियमादितिभावः ।
ननूधिकारविधैः कर्मजन्धफलखामावोधकत्वमुक्तम् । तवेयं पृच्छा, यत्, विधिना कसा फलखाम्य वोधनीयम् । नच कत्तरव फलखाम्य' बोध्यत इति नास्य व प्रश्नावकाश इति वाच्यम् । प्रतिनिधौ वाभिचारादितावाह सचेति । अधिकारविशिष्ट इति। एतेन प्रतिनिधेयंदासः। तसग्राधिकाराभावात् । ननु यथा देवतोद्देशेन द्रव्यत्यामवीधकोविधिर्यागविधिरित्युक्तौ देवतोहेशेन द्रव्यत्याग एव यागः प्रतीयते वथा फलभीक्त त्ववोधकी विधिरधिकारविधिरित्युक्तावपि फलभोक्त त्वमेवाधिकारः प्रत्येतव्यः । एवञ्च फलभीक्त त्वमधिकारी अधिकारबतच फलभीक्त त्वमित्यन्धोन्याश्रयापत्तिरित्यतोऽधिकारपदार्थमचान्यथा निर्वक्ति अधिकारश्शेति। यदिति सामान्याभिधानात् क्लीवत्वम्। श्रूयत इत्यस्य कम् तत् । पुरुषविशेषणत्वेन नियोज्यविशेषणत्वेन। एवञ्च यो धर्मों नियोज्यविशेषणत्वेन
For Private And Personal