________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
१०३
अध्ययनविधिसिद्धा विद्या। ऋतुविधीनामर्थज्ञानापेक्षणीयखेनाध्ययनविधिसिद्धार्थज्ञानवन्तं प्रत्येव प्रवृत्तः । एवमग्नि
नियोजाविशेषणत्वसिद्धिस्तथान्यत्रापि येन केनचित् प्रमाणेन प्रतिपन्नस्य यद्धर्ममन्तरण फलसम्बन्धी न सम्भवति तथाविधधर्मास्यापि नियोजाविशेषणत्वमवश्यमङ्गीकरणीयम् । एवञ्च पुरुषविशेषणत्वेन यत् श्रूयत इति प्रागुक्त न वाक्येन श्रुतसंग्रवाधिकारिविशेषणत्वं यदभिहित तत्प्रदर्शनार्थमितिभावः। तब यत् प्रमाणवलेन यत्र यद्धर्मवत्त्वमधिकारिविशेषणत्वेनाङ्गीकरणीयं तद्दर्शयति यथेति। अध्ययनविधीति। स्वाध्यायोऽध्ये तव्य इत्यादि विधीतार्थः । तेन सिवा निश्चिता। विद्या वेदार्थज्ञानम् । अधिकारिविशेषणमितिशेषः । क्रतुविधीनामिति, प्रत्तेरितानेनान्वितम् । अर्थज्ञानेति। कानुष्ठानस्य तद्दोधकबेदार्थज्ञानसापेक्षत्वेनेतार्थः। अध्ययनविधिसिद्धेति। अध्ययन विधिना स्वाध्यायोऽध्ये तब्य इतानेन सिद्धं निश्चितं यत् वेदार्थज्ञानं तदन्त प्रताव क्रतुविधीनां प्रवृत्तेरितार्थः । अयमाशयः । यागप्रतिपादकवेदार्थज्ञानमन्तरेण यागानुष्ठानासम्भवात् तदर्थज्ञानमेवाधिकारिविशेषणम् । अर्थज्ञानस्य च स्वाध्यायोऽध्ये तब्य इतानेन प्रतिपादितत्वात्, तत्तयागवीधकविधावश्रुतत्वेपि प्रमाणान्तरावगतत्वेनाधिकारिविशेषणमिति सिध्यतीति ब्राह्मणादिवर्णत्रयसैप्रव यागाधिकारः। प्रतेप्रवेत्येवकारेण वेदार्थज्ञानशून्यानां शूद्राणामनधिकार इति दर्शितम्। तथाच षष्ठाध्याय प्रथमपाद सूत्रम् ।
अपि वा वेदनिर्देशादपशूद्राणां प्रतीयतेति । अपशूद्राणां शूद्रवर्जितानामधिकार एव। कुतः वेदनिर्देशात्, वेद हि वयाणां निर्देशी भवति । वसन्ते ब्राह्मणमुपनयीत, ग्रीभे राजन्यं, वर्षासु वैश्यमिति। वेदाभाषादसमर्थः शूद्री यष्टुम् । तस्मान्न अधिक्रियेतेति भाष्यम् ।
ननु वसन्त ब्राह्मणोऽग्निमादधीतेत्यादिना वणवयाधानकालमुक्त्वा वर्षासु रथकार आदधौतेति श्रुतया रथकारस्य सौधन्वनापरपयायसा सङ्कीर्णजातित्वेन शूद्रसधर्मण: कथमाधानाधिकारः श्रूयते । नच रथं करोतीति बप्रत्पत्तवा रथनिमाड
For Private And Personal