________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
८८ ... अर्थसंग्रहः । प्राजापत्या हि बैखदेवौं कृत्वा प्राजापत्यैश्चरन्तीतिवाक्येन हतीयानिर्देशात् सेतिकर्तव्यताका एककालत्वेन विहिताः । अतस्तेषां तदङ्गानाञ्चोपाकरणनियोजनादौनां साहित्यं सम्पाद्यम् । तच्च प्राजापत्यपशूनां सम्प्रतिपन्नदेवताकत्वेन युगपदनुष्ठानादुपपद्यते। तदङ्गानाञ्चोपाकरणा
द्वितीयादिपदाथानामिति । प्राथमिकाङ्गसा तत्तत्प्रधानेष्वावृत्त्वानुष्ठानसमाप्ताबुपस्थितानां तदुत्तरकर्त्तव्याङ्गानामित्यर्थः । यः क्रम इत्यनेनासयान्वयः । प्रथमानुष्ठितेति। प्राथमिकाङ्गसा किञ्चित् प्रधानमारभ्यानन्तर्येण प्रतिप्रधानमनुष्ठाने यत् पौर्बापर्यमुपलब्ध, तस्मादित्यर्थः ।
उदाहरति यथेति। प्राजापत्येति। वाजपेये सप्तदश प्राजापत्यान् पशूनालभतेति श्रुतिविहितसप्तदशपशूनामनीषीमीयपशुविकृतित्वेनातिर्दशप्राप्तेष पाकरणादिष्वित्यर्थः। प्राथमिकाङ्गप्रवृत्तानुसारी क्रम इति शेषः। तेषु कधं प्रवृत्तिकम इत्यत्र हेतुमाह प्राजापत्याहीति, एककालत्वेन विहिता इत्यनेनान्वितम् । तथाविधायकश्रुतिवाक्यमाह बैश्वदेवौमिति ।
तृतीयानिर्देशात् तृतीयावहुवचननिर्देशात् । अत्र टतीयार्थों अभेदः तसा चाचरणक्रियायामनुयः। आचरणमनुष्ठानम्, तेन प्राजापत्याख्यकम्माभिन्नानुठानप्रतीते: प्राजापत्यसा सेतिकर्त्तव्यताकवं लभ्यते। साङ्गप्रधानसम्पादनसंग्रव कात्मकानुष्ठानत्वात् नोकदेशाचरण कमानुष्ठितं भवतीति व्यवडियते । वहुवचनेन तु साहित्यप्रतीतिवलेन एककालकर्त्तव्यता प्राप्ता। तदेवाह सेतिकर्त्तव्यताका इति एककालत्वेनेति च। एककालकर्तव्यत्वेनेतार्थः । अत इति । यतः प्राजापतग्रानां तदितिकर्त्तव्यतानाञ्च क कालकर्त्तवाताप्रतीतिरत इतार्थः । तेषां प्राजापतापश्यागानाम्। उपाकरणनियोजनादोनामिति, एक कपशुविषयाणामिति शेषः। साहितामककालकर्त्तवात्वम् । सम्पाद्य घटयितवाम् । सम्प्रतिपनेति। प्राजापतापदावगतप्रजापतिरूपैकदेवताकत्वेनेतार्थः । युगपद
For Private And Personal