________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिभाषाभाष्यवृत्त्योः ४४. क.-प्रकृतावनीषोमीये सोमश्च देवता । ऐन्द्राने इन्द्रश्र । ते प्रकृतिदेवने विकृतिप्वैन्द्रपुरोडाशे सौम्ये चरौ दृश्यते । ताभ्यामन्यत्रैकदेवतात्वेन विकारभावः । तयोस्सौम्याग्नीषोमीयविकारः, देवतैक्यात् । तथैन्द्रश्चैन्द्रामविकारः । सौमैन्द्र श्चरुस्सोममुख्यत्वादमीषोमीयविकारः । इन्द्रासोमीय इन्द्रमुख्यत्वादैन्द्रामविकारः ॥
ह.-प्रकृतौ देवताः प्रकृतिदेवताः । ता वर्जयित्वा एकदेवतानामाग्नेयविकारत्वमित्यर्थः । यथेत्युदाहरणनिर्देशः ॥
४५. क.--इह बलीयश्शब्दश्रवणादनुक्तोपि विमलो विकार: विकारविरोध आश्रीयते । सामान्यशब्दो हविषापि सम्बध्यते । यत्र प्राजापत्यचर्वादौ प्रजापतिदेवताकत्वादुपांशुयानधर्मप्राप्तिः औषधद्रव्यकत्वादायधर्मप्राषिः । अतः प्राजापत्ये हर्विदेवतासामान्ये विरुद्धचेते । नत्र विरोधे सति हविस्सामान्यादानेयधर्मप्राप्तिलीयसी । प्रकृतिविकारभाव आ. सामप्यस्त्येव ॥ ___ ह.-हविश्च देवता च हविडेवते । तयोस्सामान्यं हविर्देवतासामान्यम् । हविस्सामान्ये देवतासामान्ये च यदा प्रकतिनियम प्रति विरुध्यमाने हविस्सामान्येन प्राकृतविध्यन्तनियम इत्यर्थः । प्राजापत्यः पुगेडाश उदाहरणम् । तत्र हविस्सामान्येन पुरोडाशधर्मा भवेयुः । देवतासामान्येनोपांशुयागधर्माः । तथा सौम्यचरावाज्यभागयोः हविस्सामान्येनोपांशुयागविकारत्वम् । नामीषोमीयविकारधर्माः । अथैकेषां सोमाय पितृमत आज्यं ' इत्यत्राप्युपांशुयाजधर्मत्वम् ॥
For Private and Personal Use Only