________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयः खण्डः.
- ह.-बहवो देवता येषान्त इमे बहुदेवताः । वैश्वदेवश्चरुरुदाहरणम् ॥
४३. क.-द्विदेवता बहुदेवताश्च द्विदेवतात्वानेकदेवतात्वसामान्यादैन्द्रामविकारा वा । यथा-'आश्विनं द्विकपालं , 'मारुतं सप्तकपालं ' इत्येवमादयः । न तु समविकल्पः । चत्वार्यक्षराण्यग्नीषोमो । त्रीणीन्द्रानी । तत्र यासां विकृतीनां द्विवहुदेवतापदेषु चत्वार्यक्षराण्यधिकानि वा ता अग्रीषोमीयविकाराः । यासां त्रीण्यूनानि वा ता ऐन्द्रामविकाराः । तथा चोदाहनं अन्यतन्त्रप्रकृति वा ॥
ह.-ऐन्द्रामविकारा वा द्विदेवता बहुदेवताश्च भवेयुः ; न चायं तुल्यविकल्पः । व्यवस्थितविभाषा ह्येषा । चतुरक्षरप्रभृतयोग्नीषोमीयविकाराः यथा- 'वैश्वदेवश्चरु: ' आमावैष्णवो द्वादशकपाल: ' इति । नतोर्वाक् त्र्यक्षरप्रभृतय ऐन्द्रामविकारा: 'यथा मारूतस्सप्तकपालः' इति । प्रातर्दोहविकाराः पशवः पशुप्रभवत्वसामान्यात् 'आज्येन पशुं' 'यस्त आत्मा पशुषु प्रविष्टः' इति मन्त्रलिगाच । यत्र सगुणा देवतास्तत्र गुणाक्षरैस्सह देवताक्षराणि गण्यन्ते, गुणानामप्युद्देश्यत्वेनान्वयात् । अतो मरुतस्सान्तपना अग्रीषोमीयविकाराः । अत एव वेदं कृत्वमिं परिस्तीर्य' इत्युक्तम् । इतरथा ऐन्द्रामविकारत्वे वेदानन्तरं वेदिस्स्यात् ॥
ख-नचायं. ख-...विकारा इति व्यवस्था । यथोदाहृतं सूत्रकृता 'अन्यत्र प्रकृतिदे...... सौम्यश्वरुरिति ।
For Private and Personal Use Only