________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयः खण्ड:.
युज्यं गमेयम् ' इति । तच द्यावापृथिव्यैककपालस्य च [' उभयोर्लोकयोः' इति ] तच्च मैत्रावरुण्यादीनामामिक्षाणां कायादीनामेककपालानां च मन्यन्ते, वैशेषिकधर्मवाहेवताधर्मत्वाच्च । न चैतद्वैश्वदेव्यामतिदेशप्राप्नं, वैकृतानां हुतानुमन्त्रणानां विकृत्यर्थत्वात् । न चायं देवताधर्मः, कर्मप्रयुक्तत्वाद्धर्माणाम् ।
अन्ये तु.-देवताश्रयत्वाद्वैश्वदेववद्धतानुमन्त्रणम् । तथैव मैत्रावरुण्यामपीति' स्थितम् ॥
३९. क.-दर्शपूर्णमासाविष्टीनां प्रकृतिरिति बहीषु प्रकृ तिषु का कस्याः प्रकृतिरित्येतद्विवेकायाह 'तत्र सामा न्याद्विकारः, इति । तत्र प्रकृतिविकृतिभावे सामान्यात्साहश्याद्विकारः विकृतिर्गम्यते । तत्र प्रकृतिषु हवींषि औषधमाज्यं दधि पयश्च । देवताश्चानिरग्नीषोमाविन्द्र इन्द्राग्नी च । तत्र हविस्सामान्याद्देवतासामान्याच विकारो गम्यते । तत्र द्रव्यसादृश्यात्युरोडाशविकाराश्चरुहिरण्यसुरादयः । आज्यविकारा मधूदकादयः । सान्नाय्यविकारा आमिक्षावाजिनादयः । पशोः पयोविकारत्वे कुम्भ्यादिदर्शनं हेतुः पशावेवोक्तः । देवतासादृश्याद्विकारभावो वक्ष्यते ॥
ह.-तत्र पशपूर्णमासाविष्ठीनां प्रकृतिः इत्युक्तम् । दघ-कर्मप्रयुक्तत्वाधर्माणां देवताश्रयित्वाद्वैकृतानां प्रकृतिवहार्थ यद्धृतानुमन्त्र
णं तदेव मैत्रावरुण्यादीनामिति. 2ख--पुरोडाशविकाराश्वरुप्रभृतयः । सुरादय आज्यविकाराः । मध्वादयस्सा
नाव्यविकारा: । आमिक्षावाजिनादयः पशोर्विकाराः । पशुविकारत्वे.
For Private and Personal Use Only