________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८
परिभाषाभाष्यवृल्योः आत्मीयान्विशेषधर्मानाज्याभिपूरणसर्वहुतत्वादीनितरेषां एककपालानां प्रयच्छंस्तेषांप्रकृतिः । स्वधर्मप्रदातृत्वेन वैश्वदेविकस्यैककपालस्य निर्देशादिहैककपालसाध्ययागधर्मा नवप्रयाजादयोऽन्येषामेककपालसाध्यानां यागानां नातिदिश्यन्ते । तेषामेव मासनामभि)मो नैककपालधर्माः । आधारसस्भेदवदग्नेस्स्थानविशेषोपलक्षण एककपालः ।।
ह.-एकस्मिन्कपाले संस्कृतः परोडाश एककपालः । तस्यैककपालस्य वैश्वदैविको दावापृथिव्य एककपालः प्रकृतिः । अनेनाभिपूरणादयो वैशेषिका धर्मा एवातिदिश्यन्ते न पुनस्साधारणाः प्रसूमयनवप्रयानादयो वैकृतप्वेककपालेषु । अत एवाचार्येण वैगेषिकधर्मा आग्रयणे निबढ़ाः । मासनामभिरभिहोमोपि साधारण' इत्यवगम्यते । अनुक्रमणादाग्रयणे । एक कपालायां कपालनाशेष्टयां न क्रियते ॥
३८. क.-वैश्वदेवे यागगणे भवा वैश्वदेवी । न देवना , तद्धितेन वैश्वदेविक्या एककपालेन सह निर्देशात् । वैश्वदेव्यामिक्षा एककपालवदात्मीयान् द्वयोः पात्रयोरुद्धत्य' इत्येवमादीनन्यासामामिक्षाणां प्रयच्छति । सा तासां प्रकृतिः ॥
ह.-तप्तं पयो दधिसंयोगेन घनीभूतमामिक्षेत्युच्यने । सा वैश्वदेविका इतरासामामिक्षाणां प्रकृतिः । अयमपि वैशेषिकाणामेवातिदेशः । वैश्वदेव्या पद्धतानुमन्त्रणं प्राणैस्सा
'घ,-न साधारण,
घ.-अननु.
घ.-अतएक.
For Private and Personal Use Only