________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयः खण्डः. ३. क-अपूर्वा दर्वीहोमा न कुतश्चिद्धान् गृहीयुः, यावदुक्तेतिकर्तव्यताकाइत्यर्थः । यथा ‘दशहोतारं मनसाऽनुहुत्याs हवनोये सग्रहं जुहोति ' इति । एवमादीनां न कुतश्चिद्धर्म• प्राप्तिः ॥ ___ह.-अपूर्व इति प्रकृतिरभिधीयते । न विद्यते पूर्वो यस्य सोपूर्वः । दर्वीति होमानां विशेषनामधेयम् ; ब्रह्मौदनहोमे पाकयज्ञहोमेषु च दा होम इति अपूर्वो दर्वीहोमः न कुतश्चिद्वमान् गृह्णाति, यावदुपदिष्टाङ्ग इत्यर्थः ॥
४. क-के बीहो? किंलक्षणाः? जुहोनिशब्दचोदनो विधायको येषां ते होमा दर्वीहोमसंज्ञका: । दर्वीहोमशब्दो जुहोतीति विहितहोमनामधेयम् ॥
४. क-मन्त्रेण वा, देवतापदेन वा देवता उद्दिश्याज्यादीनां द्रव्याणां प्रदीयमानानामाहवनीयादिषु प्रक्षेपो होमः । तस्येदानी सामान्येनेतिकर्तव्यतोच्यते । प्रदीयते येन प्रदानं । स्वाहाकारः प्रदानं यस्य, सः स्वाहाकारप्रदानः । यत्र मन्त्रे स्वाहाकारो न पठितस्तत्र मन्त्रस्यान्ते शुद्धदेवतापदे च स्वाहाकारोविधीयते ; यथा-"रिष्टहोमे 'दश ते तनूवो यज्ञ यज्ञियाः । इति; अनये स्वाहेति च ॥
. ह.-जुहोतिशब्देन चोदना यस्य स जुहोतिचोदनः । कचित्प्रत्यक्षेण जुहोतिशब्देनचोदना ; यथा-'नारिष्टान् जुहोति' इति । क्वचित्परोक्षेण' ; यथा 'आधारावाधारयति' इति । स्वाहा
1ग-कवि नुमेयेन.
For Private and Personal Use Only