________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिभाषाभाष्यवृत्त्योः. दाहरणम् । तत्र सौत्रामण्या मैत्रावरुण्याश्च शरदेव कालः । 'परिस्रजी होता भवति । इति कर्तुरुदाहरणम् । तत्र बृहस्पतिसवे साग्निचित्ये परिस्रजित्वं विधीयमानं सौत्रामण्या मैत्रावरुण्याश्चोपादयिते । यदा वाजपेयाङ्गं बृहस्पतिसवो भवति, तदापि शरत्काले क्रियते । तस्यातिदेशतो वसन्तकाल: प्राप्तः । वाजपेयाङ्गस्य शरत्कालत्वादभिन्न योगत्वाद्गृहस्पतिसवस्येति ॥
२. ह-'देशे काले कर्तरीति निर्दिश्यते । इति वर्तते । स्व [एव शब्दो यस्यासौ स्वशब्द इति विग्रहः; सामर्थ्यापेक्षत्वात् स्वशब्दस्य । किञ्चित्प्रधानं स्वशब्देन गृह्यते ; यथा-'सौर्यः' 'निरूढः' इति । किञ्चित्प्रधानं परशब्देन गृह्यते यदन्याभूतं, यथा सौत्रामणी मैत्रावरुण्यामिक्षेति] प्रधानशब्दचोदितत्वादङ्गप्रधान विधेः । अयमस्य सूत्रस्यार्थः; यत्र ‘देशे काले कर्तरि । इति निर्दिश्यते तत्र स्वशब्दमेव निर्दिष्टं विजानीयात् , न परशब्दमित्यर्थः । 'मध्येनेराज्याहुती: ' इति देशस्योदाहरणम् । तत्र प्रधानभूता एवाहुतयो अनेमध्यदेशे विधीयन्ते । 'यदीष्टचा यदि पशुना यदि सोमेन ' इति कालस्योदाहरणम् । तत्रेष्टिपशुसोमानां निरूढसौर्यादयम्स्वशब्दा एव निदिश्यन्ते, न परशब्दा: सौत्रामणीमैत्रावरुण्यादय अङ्गभूताः । इष्टयः पशवो वा सहाङ्गा न निर्दिश्यन्त इत्यर्थः । अङ्गभूतत्वात्तयोर्न भवति सद्यस्कालता । तथा 'पशुबन्धेन यक्ष्यमाणप्पड्ढोतारम् ' इति कर्तुरुदाहरणं । तत्र स्वशब्दा एव निरूढादयः पशुबन्धेन गृह्यन्ते, न परशब्दा अग्नीषोमीयादयः । अनस्तेषु न भवति षड्ढोता ॥
घ-प्रयोग.
क-द्भिन्न.
For Private and Personal Use Only