________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयः खण्डः
५९ तत्सहाङ्गं विहितं प्रत्येतव्यम् । अङ्गान्यपि तत्र विहितानि जानीयात् । यथा 'प्राचीनप्रवणे वैश्वदेवेन यजेत ' इति साङ्गं तत्र वैश्वदेवं । 'शरदि वाजपेयेन यजेत ' इति वाजपेयस्सहाङ्गः । साङ्गस्य कर्तृविधानं 'यजमानस्स्वयमग्निहोत्रं जुहुयात् । 'पर्वणि ब्रह्मचारी जुहुयात् ' इति । करणनिमित्तेपि साङ्गस्य विधानं । स्वर्गाय विहितम् अग्रिहोत्रं यावज्जीवमिति जीवननैमित्तिकं साङ्गं विधीयते । अथवा साङ्गं प्रधानं 'देशे काले कर्तरि। इति । यत्र देशे काले कर्तरि निमित्त च प्रधानं विधीयते, तत्र तानि च विहितानि भवेयुः; यथा-'प्राचीनप्रवणे वैश्वदेवेन यजेत' 'शरदि वाजपेयेन यत' 'यजमानस्स्वयमनिहोत्रं जुहुयात् ' यावज्जीवमग्निहोत्रम्' इति निर्दिष्टम् । न स्व: अस्वः । क्रियाकारकमधिकारिणः स्वम् । अधिकारी न कस्यचित् स्वम् । अस्व इत्यधिकार्युच्यते । अस्ववाची शब्दो यस्य प्रधानस्य तदस्वशब्दं प्रधानम् । यत्र प्रधानमस्वशब्दं अधिकारिपदसंयुक्तं निर्दिश्यते अपूर्व विधीयते ; यथा-' उद्भिदा यजेत पशुकामः' 'सौर्य चकै निर्वपेद्ब्रह्मवर्चसकामः' वैश्वानरं द्वादशकपालं निवपेत्पुत्रे जाते ' इति ॥
१. ह-सहाङ्गं प्रधानमित्यधिक्रियते । तथा उपरितनसूत्रगतं यत्पदमपि प्रतिकृष्यते । देशविशेषे कालविशेषे कर्तृविशेषे च यत्प्रधानं निर्दिश्यते, तत्स्वकीयैरङ्गैस्सह निर्दिष्टं प्रतीयादित्यर्थः । 'विषम आलभेत ' इति देशस्योदाहरणम् । तत्र षड्ढोनृपश्विटियूपाहुत्यादयोपि विषम एव क्रियेरन् । तथा प्राचीनप्रवण एव पञ्चहोत्रादयः । 'शरदि वाजपेयेन यजेत' इति कालस्यो
1ख-निर्दिश्यते तत्तस्य साङ्गमेव.
For Private and Personal Use Only