________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
परिभाषाभाष्यवृत्त्योः. दर्श प्रतिषिद्धपि पितृयज्ञमनुवदन अनङ्गभावं दर्शयति । अनङ्गत्वाच कुण्डपायिनामयने न क्रियते, नक्षत्राधानानन्तरे च दर्शपि क्रियते, अदृष्टचन्द्राण प्रतिपद्यपराह्ने क्रियत इति प्रयोजनानि । तत्राहवनीयस्य न प्रणयनं, अर्थाभावात् । नित्यश्चायं पिण्डपितृयज्ञः ; “मासि पितृभ्यः क्रियते ' इति श्रुतेः। मासि मासि पितृभ्यः क्रियते इत्यस्याश्श्रुतेरर्थोवधार्यते ; 'तस्मादहरहर्मनुष्याः' इति वीप्साधिकारे श्रूयमाणत्वात् । वीप्सायां च नित्याधिकारोवगम्यते; यथा-' वसन्ते वसन्ते ज्योतिष्टोमेन यजेत' इति । नित्येप्वपि स्वर्गफलं केचन मन्यन्ते ॥
३९. क-अधिकारिपदसंयुक्तवाक्यनिर्दिष्टं कर्म प्रधानम् । तत् यत्र विहितं तत्राङ्गैस्सह विधीयते ; यथा--'उद्दिा यजेत पशुकामः' 'सौर्य चळं निर्वपद्ब्रह्मवर्चसकामः' इति ॥
ह.-अङ्गैस्सह वर्तत इति सहाङ्गम् । अङ्गोपदेशशून्यं प्रधानं दर्शपूर्णमासादिभ्योतिदिष्टैरङ्गैरङ्गसहितं भविष्यतीत्यर्थः । सौर्यत्रिकद्रुकादय उदाहरणम् ॥
इति द्वितीयः खण्डः.
अथ तृतीयः खण्डः. १-२. क-सहाङ्गं प्रधानमित्यनुवर्तते । यत्प्रधानं यत्र देशादिषु स्वशब्देन वाचकेन निर्दिश्यते उपदिश्यते, तत्र
For Private and Personal Use Only