________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.. द्वितीयः खण्डः. ह.- पितॄणां यज्ञः पितृयज्ञः । अत्र पिण्डपितृयज्ञः पितृयज्ञ इत्यभिधीयते । तस्मात्पितृभ्यः पूर्वाः क्रियते । इति दर्शपूर्णमासप्रकरणे दर्शनात् । कर्ममध्यवर्तित्वादङ्गत्वे प्राप्ते इदमुच्यते । अनङ्गं पिण्डपितृयज्ञस्स्यात् । कुतः ? स्त्रकालविधानात्, ‘अमावास्यायामपराह्ने पिण्डपितृयज्ञः' इति । न ह्यङ्गत्वे पृथक्कालो विधीयते, यथा प्रयाजादेः ॥
स्वका
३७. क-दर्शपूर्णमासाभ्यां सह तुल्यवत्प्रसङ्ख्यानात् गणनात् तद्वदेवानङ्गम् । एवं श्रुति: ' चत्वारो महायज्ञाः । अग्नि- . होत्रम् दर्शपूर्णमासौ चातुर्मास्यानि पिण्डपितृयज्ञ इति । एवं तुल्यवत्प्रसङ्ख्यानान्नाङ्गम् ॥
ह.-तुल्य इव तुल्यवत् । प्रसङ्ख्यानं परिगणनं ; परिगणनादित्यर्थः । एवं हि श्रूयते 'चत्वारो वै महायज्ञाः । अग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पिण्डपितृयज्ञ इति । । यद्वाप्रसङ्ख्यानं विधानं 'अप्यनाहिताग्नेः' इत्याहिनाग्नेरनाहिताग्नेश्च तुल्यवद्विधानादित्यर्थः । अत्र बनाहिताग्नेर्व्यक्तमनङ्गं पिण्डपितृयज्ञ इति । तद्वदेवाहिताग्नेरपीति ।।
३८. क-प्रतिषिद्धे अमावास्यायागे पिण्डपितृयज्ञो दृश्यते 'पौर्णमासीमेव यजेत नामावस्यां; पिण्डपितृयज्ञमेवामावास्यां प्रीणाति , इत्यमावास्यायां पिण्डपितृयज्ञमनुवदन् तदनङ्गं दर्शयति ॥
ह.-एवं हि शाखान्तरे श्रूयते 'पौर्णमासीमेव यजेत भ्रातृव्यवान्लामावास्यां पिण्डपितृयज्ञमेवामावास्यायां कुरुते इति
For Private and Personal Use Only