________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२
परिभाषाभाष्यवृत्त्योः
कारेण प्रदानमस्मिन्निति स्वाहाकारप्रदानः । सर्वस्यैव मन्त्रस्यान्ते स्वाहाकारः । यस्यमन्त्रस्यादावन्ते वा पठित एव स्वाहाकारस्तत्र तेनैव प्रदानम् । यत्र पुनमन्त्रमध्य एव स्वाहाकार: पठितस्तत्रान्ते स्वाहाकारेण प्रदानं । यथा-'देवा गातुविदः ' इति । 'पुरस्तात्स्वाहाकृतयो वा अन्ये देवा उपरिष्टात्स्वाहाकृतयोन्ये, इति द्वयोरेव नियमात् । यत्रादावन्नेवा स्वाहाकार: पठचते, यथा-'स्वाहा वा सुभवस्सूर्याय ' इति, यत्र वषट्कारप्रदाने मन्त्रो विहितः, यथा-'जातवेदो वपया' इति, तत्र न मन्त्रान्ते स्वाहाकार: कर्तव्यः । यत्राप्यमन्त्रको होमस्तत्रापि स्वाहाकारेणैव प्रदानम् । यथा-'अथैनेध्वथुस्संत्रावेणाभिनुहोति , इति । यत्र तूष्णीमिति वचनं तत्र स्वाहाकारोपि नास्ति ; यथा 'सकदेव सर्वं तूष्णीं जुहुयात्' इति ॥
५. क-प्रदानमित्यनुवर्तते । आज्यस्थाल्या ध्रुवाया वा आनीय वेण वा जुबा वा जुहोति । सद्गृहीत्वा सकृदेव होतव्य इत्यर्थः ॥
ह-सकगृहीत्वा दर्वीहोमा होतव्या इत्यर्थः । सारस्वतौ होमौ चतुर्होता चोदाहरणम् ॥
६. क-यथा 'उपाकृत्य पञ्च जुहोति ' इति आहुतिमाहुति प्रत्याहुति परिगणय्य त्रुवेण तावन्त्यवदानानि गृह्णाति । जुहामानीयाच्छिद्याच्छिद्य होतव्यः॥ .
ह-नारिष्टहोमादिष्वाहुनिगणेषु यावत्य आहुतयस्तावन्त्याज्यानि गृहीत्वा विगृह्य विगृह्य होतव्या इत्यर्थः ॥
For Private and Personal Use Only