________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५०
परिभाषाभाष्यवृत्त्योः.
चन्द्रमाः पूर्ण दत्यर्थः । तामुपवसेत् तस्मिन्नुपवासं कुर्यात् | । पौर्णमासीमिति सप्तम्यर्थे द्वितीया । तस्योपवासविधेयं विषय: - यदा मध्यंदिनात्परस्तात् प्रतिपत्पञ्चदश्योस्सन्धिः तदोपवासः । उत्तरेतुरिज्या । यदाऽपराह्ने चेत् [ यद्यस्याभिज्या पूर्वाह्णे चेत् ] पर्वसन्धिः कर्ममध्ये न स्थात् । पु[प] रस्तान्मध्यंदिनाचेत् 'प्रातर्यजध्वमश्विना हिनोत । न सायमस्ति देवया अजुष्टं ' इति मन्त्रवर्णेन 'पूर्वा वै देवानां ' इति वाजसनेयश्रुत्या च विरुध्यते । तस्मादुत्तरभाविन्यामुपवास एवेत्यवधारितम् ॥
एतदेव सूत्रं पुरस्तात्पदेनान्वितं [अर्था]न्तरेणापि वहनी - यम्' | प्राथम्यत्रचनोयं पुरस्ताच्छब्दः । यदहः पुरस्ताच्चन्द्रमाः पूर्ण: यस्मिन्नहनि सूर्याचन्द्रमसोः परो विप्रकर्षस्तस्यां पौर्णमास्यां आधानानन्तरं प्रथममुपवसेदित्यर्थः । आधानानन्तरं चोत्तरभाविन्यामेव पौर्णमास्यामारम्भः । उपरितनसूत्रे वक्ष्यमाणायां पौर्णमास्यामारम्भो न लभ्यत इत्यर्थः । एवं 'यदीष्टचा यदि पशुना' इति यथोपदिष्टकालाऽन्वारम्भणीया भवति ||
२२. क - श्वशब्दोऽव्ययम्, आगामिदिनवाची, अधिकरणवृत्तिश्च । अन्वाधानानन्तरदिने चन्द्रमाः पूरिता चन्द्रमसः पूरणं भविता । श्धः काले पूर्व चन्द्रमाः पूरिता चन्द्रादित्ययोः परो विप्रकर्ष पर्वसन्धिरिति । यागानुष्ठानात्पुरस्तात्पूर्वेद्युः पौर्णमासीमुपवसेत् । इयमनुमतिः । अपरेद्युः पर्वसन्धिर्यथा प्रयो। गमध्ये भवति, तथा यजेत ||
ह. - श्वः प्रतिपत्पर्वसन्धिरिति वा पूर्वेद्युरुपवसेत् । उत्तक- अर्थान्तरेपि वर्णनीयम्.
For Private and Personal Use Only