________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः खण्डः.
यथा चन्द्रयोगो मध्यवर्तिकालो भवति, प्रधानं च तत्सनिकृष्टं तथोपवासं वदिष्यति ॥ .
२०. क-पौर्णमास्यामिति सप्तम्या कालनिर्देशः । यस्मिन्काले चन्द्रादित्ययोः परो विप्रकर्षस्तस्मिन् चन्द्रमाः पूर्यते । स काल: पौर्णमासी । पौर्णमास्येति तृतीयानिर्देशः । 'आनेयोष्टाकपाल ऐन्द्राग्न एकादशकपाल: ' इत्येवमादिभिनिर्दिष्टानि पौर्णमासीनामकानि । अत्रापि तृतीयानिर्देशात्तया पौर्णमास्या करणभूतया साङ्गया पौर्णमास्यां काले यजेत ॥
२१. क-कलाभिः पूर्यमाणो यस्मिन् क्षणे चन्द्रमास्स पूर्णमास: । पूर्णः क्षयाभिमुखः । तस्मित् चन्द्रादित्ययोः परो विप्रकर्षा भवति । स क्षणः पर्वसन्धिः । पञ्चदश्याः प्रतिपदश्च पूर्णमासयोगात् पौर्णमासी] तत्क्षणयोगात् पञ्चदशी प्रतिपच्च पौर्णमासी । तदा अहयात्मकपौर्णमास्यां पौर्णमास्या यजेत' इति साङ्गा पौर्णमास्यनष्टया विधीयते । तत्राहये यस्मिन्नहनि चन्द्रमाः पूर्ण उत्सत् उदेति तां पौर्णमासी यागानुष्ठानात्पुरस्तात्पूर्वमुपवसेत् । पूर्तरनियतकालत्वात् यस्मिन्नहन्यपराह्ने रात्रौ सन्ध्यायां वा पूर्णश्चन्द्रमाः चन्द्रादित्ययो: परो विप्रकर्षस्स पर्वकालः । तां पौर्णमासीमुपवसेत् । राका चेयम् ॥ ___ह.-अहरिति सप्तम्या लुक्, यस्मिन्नहनीत्यर्थः । पुरस्तादित्येतत्पदमस्मिन् सूत्रे इदानीमन्वयं न लभते ; प्रयोजनाभावात् । उत्सर्पदिति पदमन्वितमप्यविवक्षितमेव । यस्मिन्नहनि 1क-यथाप्रयोगमध्ये पर्वकालो भवति, प्रदानं द्वितीयासन्निकृष्टं तथोपवासं वदिष्यति.
For Private and Personal Use Only