SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिभाषभाष्यवृत्त्योः. स्समस्यन्ते, यथा 'द्विगुणा पशुरशना, त्रिगुणा यूपरशना' इति । तानि प्रसव्यमप्रदक्षिणं गुणानावेष्टय कृत्वा प्रदक्षिणं समस्येत् परिवर्तयेत् ॥ ह.-शुल्बानि रजवः । समासं गच्छन्ति 'द्विगुणा त्रिवृत्तित्रगुणा' इति 'पवित्रम्' इति च ; तानि पूर्वमप्रदक्षिणमावेष्टच प्रदक्षिणं संयोजयेत् ॥ १८. क-पान्येकगुणशुल्बानि तानि प्रदक्षिणमेवावेष्टयेत् . आवर्तयेत् ॥ ह.-बहिस्सन्नहनमिध्मसन्नहनं चोदाहरणम् ॥ १९. क-अमावास्यायामिति सप्तमीनिर्देशः कालवचनः स्वस्मिन् काले वर्तते । अमाशब्दस्सहार्थे । यस्मिन्काले सूर्या चन्द्रमसोस्सहवास: स कालोमावास्या । अमावास्ययेति तृतीयानिर्देश: कर्मवचनः; यथा 'आग्रेयोष्टाकपालः, 'ऐन्द्राम एकादशकपालः' इत्येवमादीनि दर्शितानीत्येतैः कर्मभिरमावास्यायां काले यजेत । अमावास्ययेति तृतीयानिर्देशात् करणभूतयागस्साङ्गोऽमावास्यायां काले विधीयते ॥ ह.-सूर्याचन्द्रमसोस्सहवासो यस्मिन्काले भवति स कालोऽमावास्या । तस्याममावास्यया आग्नेयादिप्रधानसमुदायेन यजेत । क्षणमात्रत्वादस्य कालस्य, तावति काले साङ्गस्य प्रधानस्य प्रयोक्तमशक्यत्वात, यथायं क्षण: प्रयोगमध्ये भवति तथाऽमावास्यया यजेतेत्यस्योपदेशस्यार्थो वर्णनीयः ॥ For Private and Personal Use Only
SR No.020068
Book TitleApstambparibhasha Sutram
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherGovernment of Mysore
Publication Year1893
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy