________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
द्वितीयः खण्डः
५१
।
रेगुरिज्या भवेत् । अस्योपवासविधेरयं विषयः - यस्यां पौर्णमास्यां पूर्वी सूर्याचन्द्रमसोः परो विप्रकर्षस्तस्यां पूर्वरुपवसेत् ॥
Acharya Shri Kailassagarsuri Gyanmandir
२३. क - अस्य सूत्रस्याचार्यग्रन्थः [स्यचायमर्थः ] । तृतीयां पौर्णमासीं खविकां वाजसनेयिनः पठन्ति । द्वादशधा रात्रिं कृत्वा, द्वादशभागावशिष्टे यदा विप्रकर्षतां खविक्रेत्याहुः । अल्पकालावशिष्टायां रात्रयां यदा पर्वकालः सा खर्विकेत्युच्यते । खर्वशदोल्पवाची । अथवा षोडशेह्नि पुरस्तान्मध्यंदिनाद्यदि स्यात्पर्वकाल: सा खर्विका । षोडशेयुपवासः । यात्वेषा खर्विका यस्याश्च पूर्वा पर्वकालः, तयोस्सद्यस्कालेति संज्ञा ||
ह. - खर्वशब्दो रूपवचनः । द्वादशधा रात्रिं कृत्वा द्वादशभागावशिष्टे यदा सूर्याचन्द्रमसोः परो विप्रकर्षस्तां खविकामाहुः । यद्वा षोडशेहनि यदा पुरस्तान्मध्यंदिनाद्विप्रकर्षम्सा खर्विका | तस्यामुपोप्य श्वोभूते यागः । वाजसनेयिग्रहणं मुख्य कल्पानुकल्प विवेकार्थम् ॥
“
२४. क- चन्द्रमाः, उपवसेत् इत्यनुवर्तते । यस्मिन् क्षणे चन्द्रादित्ययोः परस्सन्निकर्षस्सहवासः । अमेति सहत्ववाची । सोमावास्या पर्वसन्धिः प्रतिपदः पञ्चदश्याश्च । तस्मिन् चन्द्रमा न दृश्यते । तत्क्षणयोगात् पञ्चदशी प्रतिपञ्चामावास्या | तत्राहये 'अमावास्यायाममावास्यया यजेत' इति साङ्गा अमावास्या अनुष्ठेया विधीयते । तत्राहर्द्वये यस्मिन्नहनि चन्द्रमान दृश्यते चन्द्रादित्ययोः परस्सन्निकर्षः स चानियत
1
,
-
For Private and Personal Use Only