________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिभाषाभाष्यवृत्त्योः
१. क-मन्त्रप्रकाशितानुष्ठितस्य कर्मणो निशेयसकरवान्मन्त्रोचारणेन भवितव्यं । अनन्तरं कर्मणामन्तो न । मन्त्रान्तकर्माद्योः सन्निपातस्सङ्गमो नैरन्तयं स्यात् ॥ .
ह.-मन्त्राणामन्ताः मन्त्रान्ताः । कर्मणामादय: कर्मादयः । सन्निपातस्सङ्गमः । यत्र स्वाहाकारो वषट्कारो वा मन्त्रस्यान्ते प्रयुज्यते, तत्र ताभ्यामेव कर्मादिसन्निपातः ॥
२. क-आधारमन्त्राद्योस्संयोगस्सहभावः । धारामन्त्रादोश्च । आधार इति होमनाम । तस्मादाज्यं द्रव्यम् । “समारभ्य " इति मन्त्रप्रकाशित इन्द्रो देवता । तत्रेन्द्रमुद्दिश्याहुतिमात्रमाज्यं प्रदेयम् । तत्रादिसंयोग उक्तो नान्तसंयोगः । एवं होमसिद्धिर्भवति । मन्त्रोच्चारणसमकाले यद यो न्त्यक्षणं [ण:] तत्तसतस्य होमस्येतिकर्तव्यता । वसोर्धाराशब्दश्चानेकेषां मन्त्राणां होमानां नामधेयम् । तेषां च घृतं द्रव्यम् । “वाजश्च मे प्रसवश्च मे " इत्यादिमन्त्रप्रकाशिता वाजप्रसवाद्या देवताः । तत्र नैरन्तर्येण मन्त्रा उच्चार्या: । अविच्छेदेन च धारा प्रस्रावयितव्या । तत्र प्रकाशितदेवतायै द्रव्यम् । यावदुत्तरोत्तरमन्त्रपरिसमाप्ति तत्तन्मन्त्रान्ते तत्तन्मन्त्रप्रकाशितदेवतायै आहुतिमात्रं घृतं देयम् । आधारवदादिमन्त्रोच्चारणकाले यद्धृतधाराकरणं तद्धाराकरणान्तरस्येतिकर्तव्यता ॥
. ह.-आधारस्तुच्यादिः । धारा वसोर्धारादिः । आधारे धारायां च सन्ततश्रुतिर्दश्यते । तत्र कर्मादेर्मन्त्रादेश्च संयोगो भवति ; सन्ततश्रुतिमूलत्वादादिसंयोगस्य ॥
For Private and Personal Use Only