________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः खण्डः
मनोता, " त्वं ह्यने” इत्यनुवाकः । हविष्कृच्चाध्रिगुश्च पुरोनुवाक्या च मनोता च हविष्कृदध्रिगुपुरोनूवाक्यामनोतमिति द्वन्द्वैकवद्भावः । हविकृतः पशुतन्त्रवर्तिनः सवनीया उदाहरणम्। तेषु कालभेदाद्धविष्कृदावर्तते । तथा नानाबीजेपूलूखलमुसलयोस्तन्त्रपक्षे कालभेदादावर्तते । हविरासादनादि तण्डुलप्रस्कन्दनान्तमेकैकस्य हविषः तदादि क्रियत इति । अध्रिगुः वाजपेये सारस्वत्यन्तानामेव, सवनीयकालालम्भपक्षे । सारस्वतप्रभृतीनां, ब्रह्मसामोपाकरणानन्तरालम्भपक्षे । कालभेदादावर्तते । पुरोनुवाक्याग्रहणेन अवदानादिप्रक्षेपान्तो' यागप्रचारो लक्ष्यते । तस्य "अमये भ्राजस्वते पुरोडाशमष्टाकपालम्" इत्युदाहरणम् । तत्र सौर्यव्यवधानादानेययोः सम्प्रतिपन्नयोरप्यवदानादि पुरोनुवाक्यासहितो यागप्रचार आवर्तत इत्यर्थः । मनोतायाश्च वाजपेये सारस्वत्यन्तानाम् सारस्वतप्रभृतीनां च कालभेदेन हविःप्रचारपक्षे आवर्तते । हेत्वर्थोयं सप्तमीनिर्देशो द्रष्टव्यः ॥
४७. क-एकमन्त्राणीत्यस्यापवादः । वचनादेकं कर्मानेकमन्त्रं भवति । उत्क्रामोदक्रमीदिति द्वाभ्यामुत्क्रमयति । चतुर्भिरभ्रिमादत्त इति । यत्र वचनं नास्ति लिङ्गक्रमप्राप्ताश्विनग्रहणार्थ मन्त्रविकल्पः॥
ह.-वचनं “ चतुर्भिरात्रिमादत्ते” इति । तत्र बहुभिर्मन्त्रैः एकमादानं क्रियत इति ॥
इति प्रथमः खण्ड:.
पुरोनुवाक्यासहितो.
For Private and Personal Use Only