________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः खण्डः. ३. क-इह शास्त्रे मन्त्रादिनोपदिष्टेन कृत्स्नोयं मन्त्र उपदिष्टो वेदितव्यः ॥
ह.-आदिः प्रदिष्टो येषां ते आदिप्रदिष्टाः । इह सूत्रे 'प्रेयमगात्' इत्यादयो मन्त्रा: आदिमात्रनिर्देशाः, न कृत्स्नपठिताः । यद्वा वेदविषयेयं परिभाषा । वेदवदेव सूत्रेष्वपि द्रष्टव्या । पारशुदगताना मन्त्राणां कृत्स्नपाठो वाक्यावसाननिवृत्यर्थः । तथाप्यादिप्रदेशो' वाक्यावसानमेव, 'लोकोसि स्वर्गोसि' इत्यनुवाकेन प्रतियन्त्रमिति । 'यदस्य पारे रजसः । इति पाशुकप्रायश्चित्ते वाक्यावसानेनैव कर्तव्यम् । न चाग्निकाण्डगतस्यायं विनियोगः; प्रकरणान्तरगतत्वात् ॥
४. क-उत्तरस्य मन्त्रस्यादिना निर्दिश्यमानेन पूर्वस्य मन्त्रस्यावसानमन्तं जानीयात् । “प्रेयमगात्” इति मन्त्रो यावत् “देवानां परिवूतमसि ” इति, अयं मन्त्रो यावत “ देवबर्हिः" इति ॥
ह.-आदिमात्रपठिता इह मन्त्रा इत्युक्तम् । कस्तेषामन्त इत्याह- उत्तरस्यादिना पूर्वस्यावसानं विन्द्यात् ।। प्रकरणान्तरविनियोगात्पूर्वस्यान्त इति ज्ञानम् । यथा 'महीनां पयोसि' इति ‘दुग्धम् ' इत्यन्तेन पृषदाज्यस्य ग्रहणम् ; 'यावती द्यावापृथिवी ' इति दधिधर्म विनियोगात् । 'अमेभस्मास्यग्नेः पूरीषमसि' इत्यन्तेन सम्भारनिवपनम्, 'अग्नेयेतत्पुरीषं । यत्सम्भाराः' इत्यर्थवाददर्शनात् । 'दिवो वा विष्णो? इति 'उत
क-तत्राप्यादिप्रदेशे. ख. ग-दधिग्रहे. [अयं पाठः असाधुः; सूत्रे दधिधर्म एव विनियोगात्.]
For Private and Personal Use Only