________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
परिभाषाभाष्यवृत्त्योः. ऋग्वेदसामवेदविहितानां मन्त्राणां साम्नां चोच्चैः प्रयोगः कर्तव्यः । वेदग्रहणादेवैतद्वेदविहितानां यजुषामप्युःप्रयोगः कर्तव्यः।
ह.-उच्चैरित्येतदव्ययं । अनेन शब्दोच्चारणे विशेषो विधीयते येन शन्दो व्यक्तं श्रूयते । क्रियायामुच्चैस्त्वासंभवात् । ये मन्त्रा ऋग्वेदसामवेदाभ्यां विहितास्ते 'उच्चैरुचारणीया इति सूत्रार्थोवधार्यते । वेदग्रहणादृग्वेदसामवेदाभ्यां यानि विधीयन्ते यजूंषि तान्युरेव प्रयोक्तव्यानि ।
८. क-क्रियत इत्यनुषङ्गः । करणवदशब्द(वद)मनःप्रयोग उपांशु । यजुर्वेदविहितानां मन्त्राणामुपांशु प्रयोगः कर्तव्यः । अत्रापि वेदग्रहणाद्यजुर्वेदविहितानां मन्त्राणां ऋचां साम्नां चोपांशु प्रयोग एव । यजुषामप्यूहप्रवराणां । ऋग्वेदविहितं होतं; तत्रोच्चैस्त्वं यद्य[द]पि यजुर्वेदविहितं हौत्रमिष्टिहौत्रादि तदप्युच्चैरेव कर्तव्यम् । जामदग्नचे चतूराने यजुर्वेदेनानेयादयः पुरोडाशा विहिताः । उपसत्सु तेषां हौत्रमन्त्रास्सामवेदविहिता: अमिहोतावेत्वग्नेर्होत्रमित्यादयः । तेषां यजुर्वेदविहितहोमशेषविहितत्वादुपांश्वेव प्रयोगः।
ह.-करणवदशब्दम म्] मनःप्रयोग उपांशु , तालबादिव्यापारे प्रत्यक्षेपि यत्र शब्दो न श्रूयते । न च मनोव्यापारमात्रं तदुपांश्वित्युच्यते । यजुर्वेदविहिता मन्त्रा उपांशु प्रयोक्तव्या इत्यर्थः। अत्रापि वेदग्रहणाद्यजुर्वेदविहितानां सानामृचामूहादीनां चोपांशु प्रयोग: सिद्धो भवति । यत्र यातुर्वेदिकानामङ्गानां भूयस्त्वं तत्कर्म सकलं यजुर्वेदविहितमेवेति मन्तव्यं । यथाधाने सामगानसहितः सकलप्रयोगो यजुर्वेदविहित एवेति आधानाङ्गभूतस्य
For Private and Personal Use Only