________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः खण्डः
६. क-कस्तहि त्रिभिदैविधीयत इत्यत्राह । सर्वैरमिष्टोमः॥ अग्निष्टोमशब्देन अग्निष्ठोमसंस्थप्रकृतिभूतो ज्योतिष्टोम उच्यते । स तु साङ्गः प्रस्तुतैः सदैविधीयते । स्तोत्राणि सामवेदेन । शस्राणि ऋग्वेदेन । ग्रहग्रहणादि यजुर्वेदेन । तत्र स्तोत्राण्युद्गात्रा कर्नव्यानि । शम्रापि होत्रा । ग्रहग्रहणाटीन्यभ्वर्यणा ।
ह.-प्रगीतमन्त्रमाध्य गणिनिश्रगुणमंकीर्तने म्नोमशब्दः । यज्ञायज्ञीयं सामानेयं । तत्साध्यं स्तोत्रमग्निष्टोमः । इह तस्तोत्रसंस्थत्वात् ऋतोरमिष्टोमाभिधानं । ऋग्वेदादिभिस्त्रिभिरेव तस्य साङ्गो विधिः पूर्यत इत्यर्थः । ननु ‘स त्रिभिः' इति वचनस्य निर्मुक्तापवादस्य पारिशेप्यादग्निष्टोमविषयत्वेनावसितत्वान्नार्थ आरम्भेणेति चेत् । उच्यते । अथर्वणवेद प्राप्तचर्थोयमारम्भः, सर्वै रथर्वणवेदसहिनैरग्निष्टोमो विधीयत इति । तत्रहि] कृत्स्नं ब्रह्मत्व मानातं । एवं स त्रिभिरिति विरुद्धमापद्येत । अत्र ब्रूमः । त्रिप्वपि वेदेषु यद्ब्रह्मत्वमानातं तेनैव सकलं पूर्यत इति नैकेनाप्यथर्वा पेक्षेति प्रतिपादयितुं स त्रिभिरित्यारब्धं । तथाच अतिः । “यहचैव होत्रं क्रियते यजुषाध्वर्यवं सानोद्गीथं व्यारब्धा त्रयी विद्या भवति अथ केनं ब्रह्मत्वं क्रियते त्रय्या विद्ययेति ब्रूयात्” इति । तस्मात्सूत्रदयेनैवं व्यवस्थितं त्रिभिदैर्ब्रह्मत्वं क्रियते अथर्वणवेदेन वेति । अथवा दर्वीहोमानामपि त्रिभिरेव विधाने प्राप्ने तन्निवृत्त्यर्थमिदमारभ्यते, यत्र यत्र वेदे दर्वीहोमविधानं नत्र साकल्येनैवेति ।
७. क-दूरस्थस्य श्रवणकरणशब्दप्रयोगः उच्चैः प्रयोगः ।
घ्यावृत्त्यर्थस्सोयमारम्भः.
एवं तर्हि.
नकषामप्यथर्वा.
For Private and Personal Use Only